________________
उत्तराध्य.
बृहद्वृत्तिः
॥५३४॥
%%
इच्छादिदशावयवा 'साधूनां' यतीनां सामाचारी 'प्रवेदिता' तीर्थकरादिभिरुक्तेति सूत्रत्रयगर्भार्थः ॥ एतामेव प्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतयाऽभिधातुमाह
गणे आवस्सियं कुजा, ठाणे कुज्जा निसीहिये । आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ॥ ५ ॥ छंदणा दव्वजाएणं, इच्छकारो अ सारणे । मिच्छाकारो अ निंदाए, तहकारी पडिस्सुए ॥ ६ ॥ अन्भुट्ठाणं गुरुपूया, अच्छणे उवसंपया । एवं दुपंच संजुत्ता, सामायारी पवेइया ॥ ७॥
'मने' तथाविधालम्बनतो वहिर्निःसरणे आवश्यकेषु - अशेषावश्यकर्त्तव्यव्यापारेषु सत्सु भवाऽऽवश्यकी, उक्तं हि - "अवस्सिया उ आवस्सएहिं सवेहिं जुत्तजोगस्से "त्यादि, तां 'कुर्याद्' विदध्यात्, स्थीयतेऽस्मिन्निति स्थानम्| उपाश्रयस्तस्मिन् प्रविशन्निति शेषः कुर्यात्, कां ? - ' नैषेधिकीं' निषेधनं निषेधः - पापानुष्ठानेभ्य आत्मनो व्यावर्त्तनं तस्मिन् भवा नैषेधिकी, निषिद्धात्मन एतत्सम्भवात्, उक्तं हि - " जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ" इत्यादि, आङिति - सकलकृत्याभिव्याहया प्रच्छना आप्रच्छना - इदमहं कुर्या न वेत्येवंरूपा तां खयमित्यात्मनः | करणं - कस्यचिद्विवक्षितकार्यस्य निर्वर्त्तनं स्वयंकरणं तस्मिन्, तथा 'परकरणे' अन्यप्रयोजनविधाने प्रतिप्रच्छना, गुरुनियुतोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव गुरुं, स हि कार्यान्तरमध्यादिशेत् सिद्धं वा तदन्यतः स्यादिति, उभयत्र १ आवश्यकी तु आवश्यकेषु सर्वेषु योगयुक्तस्य । २ यो भवति निषिद्धात्मा नैषेधिकी तस्य भावतो भवति ।
Jain Education International
For Personal & Private Use Only
सामाचा
र्यध्ययनं.
२६
॥५३४॥
www.jainelibrary.org