________________
कायठिई, जहन्नुक्कोसिया भवे ॥ १६६ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढमि सए काए, नेरइयाणं तु अंतरं ॥ १६७॥ एएसिं वन्नओ चेव, गंधो रसफासओ । संठाणादेसओ वावि, विहाणाइंट
सहस्ससो॥ १६८॥ al नेरइएत्यादि चतुर्दश सूत्राणि । नैरयिकाः 'सप्तविधाः' सप्तप्रकाराः, किमिति ?, यतः पृथ्वीषु सससु 'भवे'त्ति भवेयुः, ६ ततस्तद्भेदात्तेषां सप्तविधत्वमिति भावः, काः पुनस्ताः सप्त? इत्याह-'रयणाभ'त्ति रत्नानां-वैडूर्यादीनामाभानमाभा
खरूपतः प्रतिभासनमस्यामिति रत्नाभा, इत्थं चैतत्, तत्र रत्नकाण्डस्य भवनपतिभवनानां च विविधरत्नवतां सम्भवात् , एवं सर्वत्र, नवरं शर्करा-श्लक्ष्णपाषाणशकलरूपा तदाभा, 'धूमामेति यद्यपि तत्र धूमासम्भवस्तथाऽपि ४ तदाकारपरिणतानां पुद्गलाना सम्भवात् , तमोरूपत्वाच तमः, प्रकृष्टतरतमस्त्वाच तमस्तमः, 'इति' इत्यमुना पृथि
पीसप्तविधत्वलक्षणेन प्रकारेण नैरयिका एते सप्तधा प्रकीर्तिताः । 'लोगस्से'त्यादिसूत्रद्वयं क्षेत्रकालाभिधायि प्राग्वत् । सादिसपर्यवसितत्वं द्विविधस्थित्यभिधानद्वारतो भावयितुमाह-सागरोपममेकं तूत्कृष्टेन व्याख्याता| 'प्रथमायाँ' प्रक्रमानरकपृथिव्यां जघन्येन दश वर्षसहस्राणि यस्यां सा दशवर्षसहस्रिका, प्रस्तावादायुःस्थितिनैरयिकाणामितीहोत्तरसूत्रेषु च द्रष्टव्यम् । त्रीण्येव 'सागरेति सागरोपमाणि 'तुः' पूरणे उत्कृष्टेन व्याख्याता द्वितीयायां, 'जहण्णेणं'ति उत्तरत्र तुशब्दस्य पुनःशब्दार्थस्य भिन्नक्रमत्वेनेह सम्बन्धाजघन्येन पुनरेकं सागरोपमम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org