SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ "जह सगलसरिसवाणं सिलेसमिस्साण वट्टिया वत्ती । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥१॥ जह वा तिलसकुलिया बहुएहि तिलेहिं मेलिया संती। पत्तेयसरीराणं तह होंति सरीरसंघाया ॥२॥"प्रक्रमाजीवा ये इति शेषः अनेकधा ते प्रकीर्तिताः, पठन्ति च-'बारसविहभेएणं पत्तेया उ वियाहिय'त्ति, 'वृक्षाः' चूतादयः 'गुच्छाः' वृन्ताकीप्रभृतयः 'गुल्माश्च' नवमालिकादयः 'लता' चम्पकलतादयः 'वल्लयः' त्रपुष्यादयः 'तृणानि' जुजुकार्जुनादीनि 'लतावलयानि' नालिकेरीकदल्यादीनि भण्यन्ते, तेषां च शाखान्तराभावेन लतारूपता त्वचो वलयाकारत्वेन च वलयता, पर्वाणि-सन्धयस्तेभ्यो जाताः पर्वजाः पाठान्तरतः पर्वगा वा इक्ष्वादयः 'कुहणाः' भमिस्फो-४ |टकविशेषाः सर्पच्छत्रकादयो, जले रुहन्तीति जलरुहाः-पद्मादयः औषधयः-फलपाकान्तास्तद्रूपाणि तृणानि औषधितृणानि-शाल्यादीनि हरितानि-तन्दुलेयकादीनि तान्येव कायाः-शरीराण्येषामिति हरितकायाः, चशब्द एपामेव खगतानेकभेदसंसूचकः। 'साधारणशरीरास्त्विति तुशब्दस्यापिशब्दार्थत्वात् साधारणशरीरा अपि न केवलं प्रत्येकशरीरा इत्यपिशब्दार्थः, आलूकमूलकादयः हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः 'एवमादयः' १ यथा सकलसर्षपाणां श्लेषमिश्राणां वर्त्तिता वतिः । प्रत्येकशरीराणां तथा भवन्ति शरीरसंघाताः ॥ १ ॥ यथा वा तिलशष्कुलिका बहुभिस्तिलैर्मेलिता सन्ती० ॥२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy