________________
उत्तराध्य.
बृहद्वृत्तिः ॥५२७॥
ARRrrrrrt
न व्यपरोपयति 'एतान्' अनन्तरमुक्तरूपान् 'तुः' पूरणे, पठ्यते च-'विविधेन' मनोवाकायरूपतया योगेनेति गम्यते.
यज्ञीयातं वयं ब्रूमो ब्राह्मणं, तथा चारण्यकेऽप्युक्तम्-"यदा न कुरुते पापं, सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा,
ध्यय.२५ ब्रह्म सम्पद्यते तदा ॥१॥" तथा क्रोधादिभ्यो मृषा न वदति यस्तु तं वयं ब्रूमो ब्राह्मणम् , इह च मानस्य क्रोधो है। मायायाश्च लोभ उपलक्षणं, प्रायस्तत्सहचरितत्वात्तयोः, तथा च तत्राप्यवाचि-“यदा सर्वानृतं त्यक्तं, मिथ्याभाषा विवर्जिता । अनवद्यं च भाषेत, ब्रह्म सम्पद्यते तदा ॥१॥" किञ्च-"अश्वमेधसहस्रं च, सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते ॥१॥” इति 'चित्तवत्' द्विपदादि 'अचित्तं च' वर्णादि 'अल्पं वा' सङ्ख्यया प्रमाणेन च स्तोकं यदिवा 'बहुं' ताभ्यामेव प्रचुरं न गृह्णाति 'अदत्तम्' अनिसृष्टं यस्तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्युक्तम्-“परद्रव्यं यदा दृष्ट्वा, आकुले ह्यथवा रहे। धर्मकामो न गृह्णाति, ब्रह्म सम्पद्यते तदा ॥१॥" अन्यचदिव्यविषयत्वादिव्यं मानुषविषयत्वान्मानुषं.तिर्यक्षु भवं तैरश्चमेषां समाहारो दिव्यमानुषतरश्चं यो न सेवते मैथुनं 'मनसा' चित्तेन कायश्च-शरीर वाक्यं च-वचनं कायवाक्यं तेन तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्युक्तम्-"देवमानुषतिर्यक्षु, मैथुनं वर्जयेद्यदा। कामरागविरक्तश्च, ब्रह्म सम्पद्यते तदा ॥१॥"। अपि च-यथा 'पद्म' कमलं ॥५२७॥ जले उपलक्षणत्वाजलमध्ये 'जातम्' उत्पन्नं तत्परित्यागत उपरि व्यवस्थानतः 'नोपलिप्यते' न श्लिष्यते 'वारिणा' जलेन, 'एव'मिति पद्मवत् 'अलितत्ति अलिप्तः-अश्लिष्टः काम्यमानत्वात् कामैः-मनोज्ञैः शब्दादिभिरावाल्यात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org