SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ | देशा-भागाः स्कन्धदेशाः चः प्राग्वत्, तेषां स्कन्धानां प्रदेशा - निरंशा भागास्तत्प्रदेशाः ' तथैव चे 'ति समुच्चये परमाथ तेऽणवश्च परमाणवः - निर्विभागद्रव्यरूपाः 'च' समुच्चये 'वोद्धव्याः' अवगन्तव्या रूपिणः 'चः' पुनरर्थे ततो | रूपिणः पुनः 'चतुर्विधाः' चतुष्प्रकाराः ॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ, तयोश्च किं लक्षणमित्याह- 'एकत्वेन' समानपरिणतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्त इति शेषः, के एवम् ? इत्याह-स्कन्धः चस्य भिन्नक्रमत्वात्परमाणवश्च, स्कन्धा हि संहतानेकपर| माणुरूपाः, परमाणवश्च परमाण्वन्तरैरसंहतिभाजः ॥ अथवा उक्तन्यायतो द्वैविध्ये कथममी स्कन्धाः परमाणवश्च जायन्ते ? इत्याह- 'एगत्तेण' सूत्रार्द्धम्, एकत्वेन द्वयोश्च त्रयाणां यावदनन्तानामनन्तानन्तानां च पृथग्भूतपरमाणूना| मन्योऽन्यसङ्घाततो द्विप्रदेशिकत्वाद्यात्मक समानपरिणतिरूपैकभावेन, तथा 'पृथक्त्वेन' बृहत्स्कन्धेभ्यो विचटनात्मकेन भेदेन, तथा श्वेतो धावतीतिवदावृत्तिन्यायत एकत्वेन पृथक्त्वेन च तत्रैकत्वेन कैश्चिदणुभिः संहन्यमानतयैकप|रिणतिरूपेण पृथक्त्वेन च तत्समय एव केषाञ्चिदणूनां विचटनाद्भेदात्मकेन 'स्कन्धाः द्विप्रदेशादय उत्पद्यन्त इति शेषः, चशब्दस्य प्राग्वत्सम्बन्धात्परमाणवश्च, एकत्वेनेति तृतीया, तत एकत्वेन - असहायत्वेन लक्षितं यत्पृथक्त्वंस्कन्धेभ्यो विचटनात्मकं तेनोत्पद्यन्ते, एकत्वविशेषणं च यत्ससहायानां व्यणुकादीनां वास्तवं यचैकत्वपरिणतावपि | देशादीनां बुद्धिपरिकल्पितं स्कन्धेभ्यः पृथक्त्वं न ततः परमाणव उत्पद्यन्त इत्याचष्टे, तथा चाह वाचकः - " संघाताद् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy