________________
तत्सदृशी पदविपर्ययः प्राग्वत् नीललेश्या तु वर्णतो नीलेति तात्पर्यम् । अतसी-धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदः-तैलकण्टकः, तथा च वृद्धसम्प्रदायः-“वण्णाहिगारे जो एत्थ कोइलच्छदो सो तेलकंटतो भण्णइ"त्ति, क्वचित्त पठ्यते च-'कोइलच्छवि'त्ति,तत्र कोकिला-अन्यपुष्टस्तस्य छविस्तत्संनिभा, पारापतः-पक्षिविशेषस्तस्य ग्रीवा-कन्धरा
तन्निभा कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किञ्चिच्च लोहितेति भावः, तथा च प्रज्ञापना-"काऊलेसा काललोहितेजाणवण्णणं साहिजइ"त्ति। हिङ्गलुकः-प्रतीतो धातुः-पाषाणधात्वादिस्तत्सङ्काशा, तरुण इहाभिनवोदितः आदित्यःसूर्यस्तत्संनिभा, शुकः-प्रसिद्धस्तस्य तुण्डं-मुखं शुकतुण्डं तच्च प्रदीपश्च तन्निभावा, पठन्ति च-'सुयतुंडालत्तदीवाभा' अन्ये तु 'सुयतुंडग्गसंकासा' द्वयमपि स्पष्टं, तेजोलेश्या तु वर्णतो रक्तेति भावार्थः । हरितालो-धातुविशेषस्तस्य भेदो |-द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि वर्णप्रकर्षा भवतीतिभेदग्रहणं, हरिद्रेह पिण्डहरिद्रा तस्या भेदस्तत्संनिभा, सणोधान्यविशेषोऽसनो-बीयकस्तयोः कुसुमं तन्निभा पालेश्या तु वर्णतःपीतेति गर्भार्थः । शङ्ख:-प्रतीतोऽको-मणिविशेषः कुन्दः-कुन्दकुसुमं तत्सङ्काशा, क्षीरं-दुग्धं तूलकं-तूलं पाठान्तरतः पूरो वा-क्षीरप्रवाहः, अन्ये तु 'धारि'त्ति |पठन्ति, तद्ब्रहणं तु भाजनस्थस्य हि तद्वशादन्यथात्वमपि संभवतीति तत्समप्रभा, रजतं-रूप्यं हारो-मुक्ताकलापस्तत्सङ्काशा शुक्ललेश्या तु वर्णतः शुक्लेति हृदयमिति सूत्रषट्कार्थः ॥ इत्युक्तो वर्णः सम्प्रति रसमाह
जह कड्डयतुंबरसो निंबरसो कड्डयरोहिणिरसो वा । इत्तोवि अणंतगुणो रसो उ कण्हाइ नायव्वो ॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org