SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ **** ** लेसज्झयणं पवक्खामि, आणुपुब्धि जहक्कम । छण्हपि कम्मलेसाणं, अणुभावे सुणेहि मे ॥१॥ लेश्याभिधायकमध्ययनं लेश्याऽध्ययनं तत् 'प्रवक्ष्यामि' प्रकर्षेण-तासामेव नामवर्णादिनिरूपणात्मकेनाभिधास्ये, आनुपूा यथाक्रममिति च प्राग्वत् , तत्र च षण्णामपि' षटूसङ्ख्यानामपि वक्ष्यमाणभेदेन 'कर्मलेश्यानां' कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभावान्' रसविशेषान् शृणुत मम कथयत इति शेष इति सूत्रार्थः॥ एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारि द्वारसूत्रमाहनामाई वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिई गई च आउं, लेसाणं तु मुह मे ॥२॥ दारगाहा ॥ 'नामानि' अभिधानानि वर्णश्च-कृष्णादी रसश्च-तिक्तादिर्गन्धश्च-सुरभ्यादिः स्पर्शश्च-कर्कशादिः परिणामश्चजघन्यादिः लक्षणं च-पञ्चाश्रवासेवनादि, एषां समाहारे वर्णगन्धरसस्पर्शपरिणामलक्षणं तत् , 'स्थानम्' उत्कर्षापकतरूपं स्थितिम्' अवस्थानकालं 'गतिं च' नरकादिकां यतो याऽवाप्यते 'आयुः' जीवितं च यावति च तत्रावशिष्य माणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां 'तुः' पूरणे 'सुणेह मेति प्राग्वदिति सूत्रार्थः । अत्र च । द यथोद्देशं निर्देश' इति न्यायतो नामान्याह किण्हा नीला य काऊ य, तेऊ पम्हा तहेव य । सुक्का लेसा य छट्ठा उ, नामाइं तु जहक्कम ॥३॥ किण्हासूत्रं स्पष्टमेव ॥ प्रत्येकमासां वर्णानाह SALSASSISTA6403 ********** Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy