SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ म्बन्धाद् भविष्यतीति भवा-भाविनीत्यर्थः तादृशी सिद्धिर्येषां ते भवसिद्धिका-भव्यास्तेषाम् 'अभवसिद्धिकाना' तद्विपरीतानां द्विविधानामप्युक्तभेदेन प्रक्रमाजीवानां भवति 'सप्तविधा' सप्तप्रकारा इहापि लेश्यति प्रक्रमः, अत्र 8|च जयसिंहमूरिः कृष्णादयः षट् सप्तमी संयोगजा इयं च शरीरच्छायात्मका परिगृह्यते, अन्ये त्वौदारिकौदारिकमिदमित्यादिभेदतः सप्तविधत्वेन जीवशरीरस्य तच्छायामेव कृष्णादिवर्णरूपां नोकर्मणि सप्तविधां जीवद्रव्यलेश्यां | मन्यन्ते, तथा 'अजीवकम्मणो दबलेस'त्ति अजीवानां 'कम्मणो'त्ति आर्षत्वानोकर्मणि द्रव्यलेश्या अजीवनोकर्मद्र व्यलेश्या, तुशब्दस्पेह सम्बन्धात्सा पुनर्दशविधा ज्ञातव्या, चन्द्राणां सूर्याणां च ग्रहा-मङ्गलादयस्तद्गुणश्च नक्षत्राणि ६च-कृत्तिकादीनि ताराश्च प्रकीर्णज्योतींषि ग्रहगणनक्षत्रतारास्तेषाम् , आभरणानि च एकावलिप्रभृतीनि आच्छा-| दनानि च-सुवर्णचरितादीनि आदर्शा एवादर्शका-दर्पणास्ते चाभरणाच्छादनादर्शकास्तेषां, तथा मणिश्च-मरकतादिः काकिणिः-चक्रवर्तिरत्नं मणिकाकिण्यौ तयोर्या लेशयति-श्लेषयतीवात्मनि जननयनानीति लेश्या-अतीव चक्षुराक्षेपिका स्निग्धदीप्तरूपा छाया अजीवद्रव्यलेश्या प्रक्रमान्नोकर्मणि ज्ञातव्या दशविधैषा, अत्र च चन्द्रादिशब्दस्तद्विमानानि 'तास्थ्यात्तद्यपदेश' इति न्यायेनोच्यन्ते, तेषां च पृथ्वीकायरूपत्वेऽपि खकायपरकायशस्वोपनिपातसम्भवात् तत्प्रदेशानां केषाञ्चिदचेतनत्वेनाजीवद्रव्यलेश्यात्वं द्रष्टव्यम्, उपलक्षणं चात्र दशविधत्वमेवंविधद्रव्याणां रजतरूप्यताम्रादीनां बहुतरत्वेन तच्छायाया अपि बहुतरभेदसम्भवात, इत्थं नोकर्मद्रव्यलेश्यामभिधाय कर्मद्रव्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy