________________
ॐRSE-
5
विनाऽन्यत्र निःस्पृह इतियावत् , 'न' नैवान्नम्-ओदनादि तदर्थं, पीयत इति 'कृत्यलुटोऽन्यत्रापी'(पा०३-३-११३) ति वचनात्कर्मणि ल्युटि पानम्-आचाम्लादि तद्धेतुं वा-तन्निमित्तं वा,नापि 'निर्वाहणाय वा वस्त्राभ्यङ्गतैलादिना । यापनार्थ सर्वत्रात्मन इति गम्यते, किमर्थ तर्हि ? इत्याह-'तेषां' याजकानां 'विमोक्षार्थ' यथा कथं नु नामामी विमुक्तिमानयुरिति प्रयोजनार्थम् 'इदं वक्ष्यमाणं वचनमब्रवीत् , किं तदित्याह-नवि'त्ति नैव जानासि वेदानां मुखं वेदमुख-यत्तेषु प्रधानं नापि यज्ञानां यन्मुखम्-उपायो नक्षत्राणां मुखं-प्रधानं यच्च, यच्च धर्माणां वा मुखम्उपायस्तद् ,अनेन तस्य वेदयज्ञज्योतिर्धानभिज्ञत्वमुक्तं । सम्प्रति पात्राविज्ञतामाह-जे' इत्यादि, व्याख्यातप्रायमेव, नवरम्, अथ जानासि ततो भणेत्याक्षेपाभिधानमिति सूत्रचतुष्टयार्थः ॥ एवं च तत्राक्षिप्तवति भगवति स किं कृतवानित्याह| तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ। सपरिसो पंजलीहोउ, पुच्छई तं महामुणिं ॥१३॥ वेयाणं च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं बूहि, बूहि धम्माण वा मुहं ॥ १४ ॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । एयं मे संसयं सव्वं, साहू! कहय पुच्छिओ ॥१५॥ | 'तस्येति मुनेराक्षेपः-प्रश्नस्तस्य प्रमोक्षः-प्रतिवचनं तं 'चः' पूरणे 'अचयंतो'त्ति अशक्नुवन् दातुमिति गम्यते 'तस्मिन्' इति यज्ञे 'द्विजः'ब्राह्मणः 'सपर्षत्' सभान्वितः प्रकृतोऽञ्जलि:-उभयकरसंपुटात्मको येनासौ प्राञ्जलि
453
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org