SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 'अष्ट' इत्यष्टसङ्ख्यानि क्रियन्ते- मिथ्यात्वादिहेतुभिजीवेनेति कर्माणि 'वक्ष्यामि' प्रतिपादयिष्ये 'आणुपुचिन्ति प्राग्वत्सुब्व्यत्ययादानुपूा, इयं च पश्चानुपूादिरपि संभवत्यत आह-'यथाक्रम' क्रमानतिक्रमेण पूर्वानुपूर्येतियावत् , पठन्ति च 'सुणेह में' इति प्राग्वत् , यानि कीशीत्याह-'यैः कर्मभिः 'वद्धः' श्लिष्टः 'अयमिति प्रतिप्राणिखसंवेद्यो जीवः संसारे परिवर्ततेऽज्ञतादिविविधपर्यायानुभवनतोऽन्यथा च अन्यथा च भवति परिभ्रमति वा पाठान्तरत इति ४ सूत्रार्थः ॥ यथाप्रतिज्ञातमाह नाणसावरणिज्ज, दंसणावरणं तहा। वेयणिज तहा मोहं, आउकम्मं तहेव य॥२॥ नामकम्मं च गोयं च, अंतरायं तहेव य । एवमेयाई कम्माई, अट्ठेव य समासओ ॥३॥ ज्ञायतेऽनेनेति ज्ञानम्-अवबोधस्तस्य आब्रियते-सदप्याच्छाद्यतेऽनेन पटेनेव विवखत्प्रकाश इत्यावरणीयं कृत्यल्युटो बहुल'(पा०३-३-११३)मिति वचनात्करणेऽनीयः, दृश्यतेऽनेनेति दर्शनं-सामान्यावबोधस्तदात्रियते वस्तुनि प्रतीहारे व नृपतिदर्शनमनेनेति दर्शनावरणं, तथा वेद्यते-सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेदनीयं, तथा मोहयति जानानमपि मद्यपानवद्विचित्तताजननेनेति मोहस्तम्, आयाति-आगच्छति खकृतकर्मावाप्सनरकादिकुगतेर्निष्क्रमितुमनसोऽप्यात्मनो निगडवत्प्रतिबन्धकतामित्यायुः तदेव कर्म आयुःकर्म तथैव च । नमयतिगत्यादिविविधभावानुभवनं प्रत्यात्मानं प्रवणयति चित्रकर इव करितुरगादिभावं प्रति रेखाकृतिमिति नामकर्म, For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy