________________
ससंस्थापितमुक्तमिति पश्चात्तापतः पुरस्ताच कथमयं मया वञ्चनीय इति चिन्ताव्याकुलत्वेन प्रयोगकाले च नासो ममालीकभाषितां लक्षयिष्यतीति क्षोभतः तथा दुष्टोऽन्तः-पर्यवसानं तजन्मन्यनेकविडम्बनातो विनाशेन अन्यजन्मनि च नरकादिप्राप्त्या यस्यासौ दुरन्तो भवति जन्तुरिति गम्यते, तदेवं मृषाद्वारेणादत्तादानस्य दुःखहेतुत्वमुक्तं, यदा च 'मोसस्स'त्ति 'मोषस्य' स्तेयस्येति व्याख्या तदा साक्षादेव तस्य दुःखहेतुत्वाभिधानम्, उपसंहारमाह'एवम्' अमुनोक्तप्रकारेणादत्तानि 'समाददानः' गृह्णन् रूपेऽतृप्तः सन् दुःखितो भवति, कीदृशः सन् ? इत्याह'अनिश्रः' दोषवत्तया सर्वजनोपेक्षणीय इति कस्यचित्सम्बन्धिनाऽवष्टम्भेन रहितः, मैथुनरूपाश्रवोपलक्षणं चैतदिति, प्रसिद्धत्वाच रागिणां तस्य साक्षादनभिधानं, यद्वा रूपसम्भोगोऽपि मिथुनकर्मकत्वाद्देवानामिव मैथुनमेव, तथा च रागिवचनम्-"आलोए चिय सा तेण पिययमा णेहनिभरमणेणं। आभासियव अवगृहियत्व रमियत्व पीयव ॥१॥" त्ति, स च प्रक्रान्तः, एवमुत्तरत्रापि स्त्रीगतशब्दादिसम्भोगानां मैथुनत्वं सम्भावनीयम् । उक्तमेवार्थ निगमयितुमाहरूपानुरक्तस्य नरस्य ‘एवम्' अनन्तरसूत्रकदम्बकोक्तप्रकारेण कुतः सुखं भवेत् ? कदाचित्किञ्चित् , सर्वदा दुःखमेवेति भावः, किमित्येवं ?, यतः 'तत्र' रूपानुरागे 'उपभोगेऽपि' उपभोगावस्थायामपि 'क्लेशदुःखम्' अतृप्तलाभतालक्षणबाधाजनितमसातम् , उपभोगमेव विशिनष्टि-निवर्तयति' उत्पादयति यस्य-इत्युपभोगस्य कृते यदर्थ 'ण'
१ आलोक एव सा तेन प्रियतमा स्नेहनिर्भरमनसा आभाषितेव अवगृहितेव रमितेव पीतेव ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org