________________
'क्लेशं वा' मरणान्तबाधात्मकं, रागेणातुरो-विह्वलो रागातुरः सन् 'से' इति स लोकप्रतीतः 'यथा वा' इति वाशब्दस्यैवकारार्थत्वाद् 'यथैव' येनैव प्रकारेण पतङ्गः' शलभः आलोक:-अतिस्निग्धदीपशिखादिदर्शनं तस्मिन् लोलोलम्पट आलोकलोलः समुपैति 'मृत्यु' प्राणत्याग, तस्यापि गृयाऽऽलोकलोलत्वं राग एवेति भावः। 'यश्च' इति यस्तु, अपीति च तस्मिन्नित्यनेन योक्ष्यते 'दोष' द्वेषं 'समुति'त्ति वचनव्यत्ययात् 'समुपैति' समुपगच्छति रूपेवितिप्रक्रमः 'नित्यं सदा न तु कदाचित् , स किमित्याह-तस्मिन्नपि 'क्षणे प्रस्तावे यस्मिन् द्वेष उत्पन्नः 'स' इति सः 'तुः' पूरणे उपैति 'दुःखं' शारीरादि, द्विष्टो हि किमिदमनिष्टं मया दृष्टमिति मनसा व्याकुलीभवति परितप्यते च देहेन, न तु यथा रागमुपगच्छंस्तत्काले मनोज्ञविषयावलोकनजनितं सुखमभिमन्यते उत्तरकालमेव तु दुःखमिति, पठन्ति च 'समुति सति स्पष्टं, यदि रूपदर्शनाद् द्वेषमुपगच्छन् दुःखमुपैति ततस्तथाविधरूपदोषेणैवास्य दुःखावाप्तिरिति प्राप्तमित्याशङ्कयाह-दुष्टं दमनं दुर्दान्तं तच्च प्रक्रमाचक्षुषस्तदेव दोषो दुर्दान्तदोषस्तेन 'खकेन' आत्मीयेन 'जन्तुः' प्राणी, न किञ्चित् खल्पमपि रूपं प्रक्रमादमनोज्ञम् 'अपराध्यति' दुष्यति 'से' तस्य, यदि हि रूपमेवापराध्येन्न कस्यचिद्वेषाभावः स्यात्, तथा च मुक्त्यभावादयो दोषा इति भावः । इत्थं रागद्वेषयोयोरप्यनर्थ
वमुक्तमिदानीं तु द्वेषस्यापि रागहेतुकत्वात्स एव महाऽनथेमूलमिति दर्शयस्तस्य विशेषतः परिहत्तेव्यतां ख्यापयितुमाह-'एकान्तरक्तो' यो न कथञ्चिद्विरागं याति 'रुचिरे' मनोरमे रूपे, किमित्याह-'अतालिसि'त्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org