________________
%
%
उत्तराध्य. बृहद्वृत्तिः ॥३०॥
ना०३२
%%%
%%%%%
प्राग्यल्युटि ग्रहणं-ग्राह्यं तद्वदन्ति, अनेन रूपचक्षुषोयग्राहकभाव उक्तः, तथा च न ग्राहकं विना ग्राह्यत्वं नापि प्रमादस्थाग्राह्यं विना ग्राहकत्वमित्यनयोः परस्परमुपकार्योपकारकभाव उक्तो भवति, एतेन त्वनयो रागद्वेषजनने सहकारिभावः ख्याप्यते, तथा च यथा रूपं रागद्वेषकारणं तथा चक्षुरपि, अत एवाह-रागस्य हेतुं-कारणं प्रक्रमाचक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्तते इति समनोज्ञं, मनोज्ञरूपविषयभित्युक्तं भवति, 'आहुः' ब्रुवते, यत्र तु 'हेउं तमगुण्ण'मिति पाठस्तत्र 'तं'ति तचक्षुर्मनो मनोज्ञरूपविषयत्वेन ततो दोपो-द्वेषः, उक्तं हि-"ईर्ष्या रोषो द्वेषः" इत्यादि, तस्य हेतुममनोज्ञम्-अमनोज्ञरूपं, पाठान्तरतश्च हेतुं तदमनोज्ञमाहुः, उभयप्रक्रमेऽपि चक्षुष एव विशेप्यत्वेनोपदर्शनं, रूपस्य पूर्वसूत्रेणैव, एवं च रूपचक्षुषोः सहितयोरेव रागद्वेषजनकत्वाद्युक्तमुक्तं तावुद्ध कामो रूपे चक्षुर्न प्रवर्तयेत् , यदा तु पाश्चात्यपादत्रयं पूर्ववत्पठ्यते तदा पूर्वसूत्रे चक्षुषो रूपं ग्रहणं-प्रायमिति व्याख्येयं, ततश्चे-12 हापि ग्राह्यग्राहकभाव उक्तः, तत्र चोक्त एवाभिप्रायः, तथा यदि चक्षु रागद्वेषकारणं न कश्चिद्वीतरागः स्यादत आहसमश्चेत्यादि, शेषं सुगमम् । आह-अस्त्वयं रागद्वेषोद्धरणोपायः, एतदनुद्धरणे च को दोषः? येन तदुद्धरणाथेमित्थमुपदिश्यत इत्याह-रूपेषु यो 'गृद्धिं' गाय रागमित्यर्थः, उक्तं हि वाचकैः-"इच्छा मूर्छा कामः स्नेहो गाय ममत्वमभिनन्दः। अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१॥” उपैति' गच्छति 'तीव्राम्' उत्कटां गृद्धेविशेषणं,
॥६३०॥ *स किमित्याह-अकाले भवम् आकालिक-यथास्थित्यायुरुपरमादागेव प्राप्नोति स 'विनाशं' घातं, पाठान्तरतः
%%%
%%%
dan Education International
For Personal & Private Use Only
www.jainelibrary.org