________________
SARSHAN
धन्तसौख्यं दुःखलेशाकलङ्कितसुखं समुपैति ‘मोक्षम्' अपवर्गम् , अयं च दुःखप्रमोक्षाविनाभावीत्यतः स एवोपलक्षित इति सूत्रार्थः ॥ नन्वस्तु ज्ञानादिभिर्दुःखप्रमोक्षः, अमीषां तु कः प्राप्तिहेतुः ?, उच्यते
तस्सेस मग्गो गुरुविद्धसेवा, विवजणा बालजणस्स दूरा।
सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया घिई य ॥३॥ | तस्येति योऽयमनन्तरं मोक्षोपाय उक्तः 'एषः' अनन्तरवक्ष्यमाणः 'मार्गः' पन्थाः प्राप्तिहेतुः, यदुत गुरवो-यथावच्छास्त्राभिधायका वृद्धाश्च-श्रुतपर्यायादिवृद्धास्तेषां सेवा-पर्युपासना गुरुवृद्धसेवा, इयं च गुरुकुलवासोपलक्षणं, तत्र च सुप्रापान्येव ज्ञानादीनि, यदुक्तम्-“णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥"त्ति, सत्यपि च गुरुकुलवासे कुसंसर्गतो न स्यादेव तत्प्राप्तिरित्याह-'विवर्जना' विशेषेण परिहारः 'बालजनस्य' पार्श्वस्थादेः 'दूरात्' दूरेण, तत्सङ्गस्याल्पीयसोऽपि महादोषनिबन्धत्वेनाभिहितत्वात् , तत्परिहारेऽपि च न स्वाध्यायतत्परतां विना ज्ञानाद्यवाप्तिरित्याह-खाध्याये-उक्तरूपे एकान्तेन-इतरव्यासपरिहारात्मकेन निवेशना-स्थापना खाध्यायैकान्तनिवेशना सा च मनोवाकायानामिति गम्यते, पठन्ति च'सज्झायएगंतणिसेवणाए'त्ति, स्वाध्यायस्यैकान्तनिषेवणा-निश्चयेनानुष्ठानं खाध्यायकान्तनिषेवणा, सा च तत्रापि है। १ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org