SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ तथाविधशुद्ध्यनङ्गत्वात् , तथा भाव प्रक्रमात्तपो बाह्यमभ्यन्तरं चात्रैव वक्ष्यमाणखरूपं ॥तथा 'पुबुद्दिद्यो'त्ति पर्वत्रमोक्षमार्गगतिनामकेऽध्ययने उद्दिष्टः-कथितः पूर्वोद्दिष्टः 'भावमग्गो'त्ति सुब्ब्यत्ययाद् 'भावमार्गेण' मुक्तिपथेन तपोरूपेण ज्ञानदर्शनचारित्राविनाभावित्वाद् भावतपसः॥ नामनिरुक्तिमाह-द्विविधं तपो-बाह्यमभ्यन्तरं च तदेव मार्गो भावमार्गस्तत्फलभूता च गतिः-सिद्धिगतिर्द्विविधतपोमार्गगतिण्यते यस्मादत्र-अध्ययने तस्मादेतदध्ययनं तपोमार्गगतिरिति ज्ञातव्यम् , अभिधेयेऽभिधानोपचारादिति भावः, इति नियुक्तिगाथाचतुष्टयार्थः॥गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, तस्य च सूत्रानुगमाविनाभावित्वात् सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् जहा उ पावगं कम्मं, रागदोससमजियं । खवेइ तवसा भिक्खू , तमेगग्गमणो सुणे ॥१॥ | 'यथा' येन प्रकारेण 'तुः' अवधारणे भिन्नक्रमो योक्ष्यते, 'पापकं कर्म ज्ञानावरणादि रागद्वेषाभ्यां समितिभृशमर्जितम्-उपात्तं रागद्वेषसमर्जितं क्षपयत्येव 'तपसा' वक्ष्यमाणलक्षणेन भिक्षुः 'तदेकानमनाः' अवहितचित्तः शृण्विति शिष्यमभिमुखीकरोति, मा भूदनभिमुखोपदेशनेनैतद्वैफल्यमिति सूत्रार्थः ॥ इह चानाश्रवेणैव सर्वथा कर्म क्षप्यत इति यथाऽसौ भवति तथाऽऽह पाणिवहमुसावाया अंदत्तमेहुणपरिंग्गहा विरओ। राईभोयणविरओ, जीवो भवइ अणासवो ॥२॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ। अगारवो अ निस्सल्लो, जीवो भवइ अणासवो ॥३॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy