________________
मोक्षमार्ग
वृहद्वृत्तिः
गत्य०२८
उत्तराध्य. आश्रवसंवरौ, चशब्दोऽनुक्तबन्धादिसमुचये, ततो बन्धादयश्च, तथा 'रोचते'श्रद्धत्ते, तुशब्दस्यैवकारार्थत्वाद्रोचत एवं
योऽन्यस्याश्रुतत्वादनन्तरन्यायेनाधिगतान् जीवाजीवादीनेव 'निसर्ग'इति निसर्गरुचिर्विज्ञेयः, स इति शेषः । अमुमे
वार्थ पुनः स्पष्टतरमेवाह-यः 'जिनदृष्टान्' तीर्थकरोपलब्धान् ‘भावान्' जीवादिपदार्थान् 'चतुर्विधान्' द्रव्यक्षेत्रकाल॥५६४॥ भावभेदतो नामादिभेदतो वा चतुष्प्रकारान् श्रद्दधाति तथेति प्रतिपद्यते 'खयमेव' परोपदेशं विना,श्रद्धानोल्लेखमाह
'एमेय'त्ति एवमेतद्यथा जिनदृष्टं जीवादि, नान्यथेति' नैतद्विपरीतं,'चः' समुच्चये,स ईदृग्निसर्गरुचिरिति ज्ञातव्यः,निसहैर्गेण रुचिरस्येतिकृत्वा,उपदेशरुचिमाह-एतांश्चैवानन्तरोक्तान् (तुः पूरणे) भावान्' जीवादीन पदार्थान् ‘उपदिष्टान्'
थितान् 'परेण' अन्येन श्रद्दधाति, कीदृशा परेण ?-छादयतीति छद्म-घातिकर्मचतुष्टयं तत्र तिष्ठति छद्मस्थः& अनुत्पन्नकेवलस्तेन, जयति रागादीनिति जिनः,औणादिको नक् तेन चोत्पन्नकेवलज्ञानेन तीर्थकृदादिना, छद्मस्थस्य तु
प्रागुपन्यासस्तत्पूर्वकत्वाजिनस्य प्राचुर्येण वा तथाविधोपदेष्ट्रणां, स ईदृक किमित्याह-उपदेशरुचिरिति ज्ञातव्यः उपदेशेन रुचिरस्येति हेतोः। आज्ञारुचिमाह-रागः' अभिष्वङ्गः 'द्वेषः' अप्रीतिः 'मोहः' शेषमोहनीयप्रकृतयः 'अज्ञानं' मिथ्याज्ञानरूपं यस्य 'अपगतं' नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दश्च लिङ्गविपरिणामतो रागादिभिः प्रत्येकमभिसंबध्यते, एतदपगमाच 'आणाए'त्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः कचित्कुग्रहाभावाजीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् सः 'खलु'
॥५६४॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org