________________
SPACER
81 व्याख्या-'उरभ्र' उक्तरूपः 'काकिणिः' विंशतिकपर्दकाः 'उरब्भे यत्ति चशब्दस्य भिन्नक्रमत्वात् काकिणिश्च
अंबए यत्ति आम्रकं च-आम्रफलं, व्यवहारश्च-क्रयविक्रयरूपो वणिग्धर्मः, चस्स गम्यमानत्वात् , सागरश्च-समुद्रः, चः सर्वत्र समुच्चये, एवोऽवधारणे, भिन्नक्रमश्चैवं योज्यते-पञ्चैवैते न तु न्यूनाधिकाः ‘दृष्टान्ता' उदाहरणानि 'उरभ्रीये' उरभ्रीयनाम्न्यध्ययन इति गाथार्थः ॥ सम्प्रति यदर्थसाधादुरभ्रस्य दृष्टान्तता तदुपदर्शनायाहआरंभे रसगिद्धी दुग्गतिगमणं च पञ्चवाओ य । उवमा कया उरन्भे उरन्भिजस्स निजुत्ती ॥ २४८ ॥ | व्याख्या-आरम्भणं आरम्भः-पृथिव्याधुपमर्दः, रसेषु-मधुरादिषु गृद्धिः-अभिकाङ्क्षा रसगृद्धिः, दुर्गतिगमनं चनरकतिर्यगादिषु च पर्यटनं, प्रत्यपायश्चेहैव शिरश्छेदादिः, वक्ष्यति हि "सिरं छेत्तूण भुजति'त्ति शिरश्छेदादातरौद्रो-3 पगतस्य दुर्गतिपाते दुःखानुभवनादिरुपमा-सादृश्योपदर्शनरूपा, प्रक्रमादेभिरेवारम्भादिभिरथैः 'कृता' विहिता ४ 'उरभ्रे' उरभ्रविषया, इदमुक्तं भवति-साम्प्रतेक्षिणो हि विषयामिषराभवस्तांस्तानारम्भानारभन्ते, आरभ्य चोपचितकर्मभिः कालशौकरिकादिवदिहैव दुःखमुपलभ्य नरकादिकां कुगतिमाप्नुवन्तीत्युरभ्रोदाहरणता इहोपदयते, काकिण्यादिसाधर्म्यदृष्टान्तोपलक्षणं चैतद्, 'उरभ्रीयस्य नियुक्ति'रिति निगमनमेतदिति गाथार्थः ॥ इत्यवसितो नामनिष्प-8 ननिक्षेपः, सम्प्रति सूत्रालापकनिक्षेपावसरः, स च सूत्रे सति भवतीत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
जहाऽऽएसं समुद्दिस्स, कोइ पोसेज एलयं । ओयणं जवसं देजा, पोसेन्जावि सयंगणे ॥१॥
ASSISTS
dain Education
.calona
For Personal & Private Use Only
I
lajalnelibrary.org