________________
क्षुलकनिप्रन्यीयम.
उत्तराध्य. बकुशकुशीलनिग्रन्थानां श्रुतमष्टौ प्रवचनमातरः, श्रुतापगतः केवली स्नातक इति सम्प्रदायाभिप्रायः । प्रज्ञप्त्यभिप्रा-
है यस्तु-"पुलाए णं भंते ! केवतियं सुयं अहिजेजा ?, गोयमा ! जहण्णेणं णवमस्स पुवस्स तइयं आयारवत्थु, बृहद्वृत्तिः
उक्कोसेणं नव पुत्वाइं अहिजेजा" । इदानीं प्रतिसेवना-पञ्चानां मूलगुणानां रात्रिभोजनस्य च पराभियोगाद्वला॥२५८॥ कारेण अन्यतमत् प्रतिसेवमानः पुलाको भवति, मैथुनमेवेत्येके, प्रज्ञप्तिस्तु-"पुलाए णं पुच्छा, जाव मूलगुणे पडि
सेवेमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेजा, उत्तरगुणे पडिसेवेमाणे दसविहस्स पञ्चक्खाणस्स अन्नयरं पडिसेवेजा" वकुशो द्विविधः-उपकरणबकुशः शरीरबकुशश्व, तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तः विशेषयुक्तोपकरणकाङ्क्षायुक्तो नित्यं तत्प्रतिकारसेवी भिक्षुरुपकरणबकुशो भवति, शरीराभिष्वक्तचित्तो विभूषार्थं तत्प्रतिकारसेवी शरीरबकुशः । प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते, प्रज्ञप्तिस्तु-"बैकुसे णं पुच्छा, जाव णो मूलगुणपडिसेवए होजा, उत्तरगुणपडिसेवए हुजा, पडिसेव-|
॥२५॥
१ पुलाको भदन्त ! कियत् श्रुतमधीयेत?, गौतम! जघन्येन नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कर्षेण नव पूर्वाणि अधीयेत । २ पुलाकः पृच्छा, यावत् मूलगुणान् प्रतिसेवमानः पञ्चानामाश्रवाणामन्यतरं प्रतिसेवेत, उत्तरगुणान् प्रतिसेवमानो दशविधस्य प्रत्याख्यानस्यान्यतरत् प्रतिसेवेत । ३ बकुशः पृच्छा, यावन्नो मूलगुणप्रतिसेवको भवेत् उत्तरगुणप्रतिसेवको भवेत् प्रतिसेवना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org