________________
COMMARCHESE COM
प्रविशेदपि न तत्रेयमिति भावः, भीता च मा कदाचिदसौ मम शीलभङ्गं विधास्यतीति, 'तस्मिन्' इति लयने दृष्ट्वा 'एकान्ते' विविक्ते 'तकम्' इति रथनेमि, किं कृतवत्यसावित्याह-'बाहाहि ति बाहुभ्यां कृत्वा 'संगोपं' परस्परबाहुगुम्फनं स्तनोपरिमर्कटबन्धमितियावत् , 'वेपमाना' शीलभङ्गभयात्कम्पमाना 'निषीदति' उपविशति, तदा-11 श्लेषादिपरिहारार्थमिति भाव इति सूत्रचतुष्टयार्थः ॥ अत्रान्तरे
अह सोऽवि रायपुत्तो, समुद्दविजयंगओ। भीयं पवेविरं दह, इमं वक्कमुदाहरे ॥३६॥ रहनेमी अहं भद्दे !, सुरूवे! चारुभासिणी! । ममं भयाहि सुअणु !, न ते पीला भविस्सई ॥ ३७॥ एहि ता भुजिमो|५|| भोगे, माणुस्सं खु सुदुल्लहं । भुत्तभोगा पुणो पच्छा, जिणमग्गं चरिस्सिमो ॥ ३८॥
अथ च 'सोऽपीति स पुनः 'राजपुत्रः' रथनेमिः भीतां प्रवेपितां च प्रक्रमाद्राजीमतीम् 'उदाहरे'त्ति उदाहरत्-उक्तवान् , किं तदित्याह-रथनेमिरहमिति, अनेनात्मनि रूपवत्त्वाद्यभिमानतः खप्रकाशनं तस्याभिलाषोत्पादनार्थ विश्वासविशसनहेत्वन्यशङ्कानिरासार्थ वा खनामख्यापनं, 'मम'ति मां भजख' सेवख सुतनु ! न 'ते' तव | |'पीडा' बाधा भविष्यति, सुखहेतुत्वाद्विषयसेवनस्येति भावः, यद्वा तां ससम्भ्रमां दृष्ट्वैवमाह-'म म भयाहित्ति मा मा भैषीः सुतनु ! यतो न 'ते' तव पीडा भविष्यति, कस्यचिदिह पीडाहेतोरभावात् , पीडया शङ्कया च भयं सादियेवमुक्तम् , 'एहि' आगच्छ 'ता' इति तस्मात्ताबहा मानुष्यं 'खुः' इति निश्चितं सुदुर्लभं, तदेतदवाप्ताविदमपि
Jain Education Elena
For Personal & Private Use Only
nowirjainelibrary.org