________________
%ESCORMACARRORIES
राईमई विचिंतेइ, धिरत्थु मम जीवियं । जाऽहं तेणं परिचत्ता, सेयं पव्वइउं मम ॥ २९ ॥ अह सा भमरसंनिभे, कुच्चफणगप्पसाहिए। सयमेव लुचई केसे, धिइमंती ववस्सिया ॥३०॥ | सूत्रत्रयं स्पष्ट, नवरं निष्क्रान्ता हासान्निर्हासा, चशब्दो भिन्नक्रमस्ततो निरानन्दा च, 'समवसुता' अवष्टब्धा । धिगस्तु मम जीवितमिति खजीवितनिन्दोद्भावकं खेदवचो, याऽहं तेन परित्यक्तेति खेदहेतूपदर्शनं, ततश्च श्रेयः'। |अतिशयप्रशस्यं 'प्रव्रजितुं' प्रव्रज्यां प्रतिपत्तुं मम येनान्यजन्मन्यपि नैवं दुःखभागिनी भवेयमिति भावः । इत्थं
चासौ तावदवस्थिता यावदन्यत्र प्रविहृत्य तत्रैव भगवानाजगाम, तत उत्पन्नकेवलस्य भगवतो निशम्य देशनां |विशेषत उत्पन्नवैराग्या किं कृतवतीत्याह-'अहे'त्यादि, 'अर्थ' अनन्तरं 'सा' राजीमती 'भ्रमरसन्निभान्' कृष्णतया आकुञ्चिततया च, कूर्ची-गूढकेशोन्मोचको वंशमयः फणकः-कङ्कतकस्ताभ्यां प्रसाधिताः-संस्कृता ये तान् । 'वयम्' आत्मनैव 'लुञ्चति' अपनयति, भगवदनुज्ञयेति गम्यते, 'केशान' कचान 'धिइमंति'त्ति धृतिमती व्यवसितेति-अध्यवसिता सती, धर्म विधातुमिति शेष इति सूत्रत्रयार्थः ॥ तत्प्रव्रज्याप्रतिपत्तौ च
वासुदेवो अ णं भणइ, लुत्तकेसिं जिइंदियं । संसारसागरं घोरं, तर कन्ने ! लहुं लहुं ॥३१॥ P स्पष्टमेव, नवरं 'तर' इत्युलक्य, आशीर्वचनत्वादयमप्याशिषि लोट् , 'लघु लघु' त्वरितं त्वरितं, संभ्रमे द्विवचन-12 ४/मिति सूत्रार्थः ॥ तदुत्तरवक्तव्यतामाह
dain Education International
For Personal & Private Use Only
www.jainelibrary.org