________________
उत्तराध्य. गम्यते, 'मिह'त्ति मकारोऽलाक्षणिकः ‘इह' जगति 'माणवेहिंति सुव्यत्ययान्मानवेषु 'जे' इति याननेकान् छन्दानू समुद्रपा
'भावतः' तत्त्ववृत्त्योदयिकादिभावतो वा सः 'प्रकरोति' भृशं विधत्ते 'भिक्खु'त्ति अपिशब्दस्य गम्यमानत्वाद् भिक्षु
रपि-अनगारोऽपि सन् , अत इत्थमित्थं च तद्गुणाभिधानमिति भावः । अपरञ्च-भयभैरवाः' भयोत्पादकत्वेन ॥४८॥ भीपणाः 'तत्र' इति ब्रह्मप्रतिपत्तौ 'उइंति'त्ति 'उद्यन्ति' उदयं यान्ति, पठ्यते च-'उति'त्ति, उपयन्ति भयभैरवा
ते इत्यनेनापि गते भीमा इति पुनरभिधानमतिरौद्रताख्यापनायोक्तं, 'दिव्या' इत्यादावुपसर्गा इति गम्यते, 'तिरिच्छत्ति |
तरश्चाः। तथा 'परिसह'त्ति परीपहाच उद्यन्तीति सम्बन्धः, 'सीदन्ति' संयमंप्रति शिथिलीभवन्ति 'जत्थ'त्ति यत्रयेषूपसर्गेषु परीपहेषु च सत्सु 'से' इति सः तत्र' तेषु 'पत्ते'त्ति वचनव्यत्ययात्प्राप्तेषु प्राप्तो वा-अनुभवनद्वारेणायातो. न ('व्यथेत' स्यात् ) व्यथाभीतश्चलितो वा सत्त्वाद् भिक्षुः सन् ‘सङ्ग्रामशीर्ष इव' युद्धप्रकर्ष इव 'नागराजः' हस्तिराजः। स्पर्शाः' तृणस्पर्शादयः 'आतङ्काः' रोगाः 'स्पृशन्ति' उपतापयन्ति 'अकुकुय'त्ति आपत्वात् कुत्सितं कूजति-पी-1 डितः सन्नाक्रन्दति कुकूजो न तथेत्यकुकूजः, पठ्यते च-'अकक्करे'त्ति कदाचिद्वेदनाऽऽकुलितो न कर्करायितकारी, अनेन चानन्तरसूत्रोक्त एवार्थो विस्पष्टतार्थमन्वयेनोक्तः, एवंविधश्च स रजांसीव रजांसि-जीवमालिन्यहेतुतया कर्माणि खेविजे'ति अक्षिपत् परीपहसहनादिभिः क्षिप्तवान् । 'मोह(म्)' इति मिथ्यात्वहास्यादिरूपोऽज्ञान वा गृह्यते, आत्मना गुप्तः आत्मगुप्तः-कर्मवत्सङ्कचितसर्वाङ्गः, अनेन परीपहसहनोपाय उक्तः। किञ्च-'नयावि पूर्य गरिहं च
॥४८६॥
For Personal & Private Use Only
in Education International
www.jainelibrary.org