________________
र्वचनादिकं सहत इति क्षान्तिक्षमः, संयत इति संयतः स चासौ ब्रह्मचारी च संयतत्रह्मचारी पूर्व ब्रह्मप्रति - पत्त्या गतत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थम्, अनेन च मूलगुणरक्षणोपाय उक्तः । 'कालेण कालं'ति रूढितः काले — प्रस्तावे यद्वा कालेन -पादोनपौरुप्यादिना कालमिति — कालोचितं प्रत्युपे - क्षणादि कुर्वन्निति शेषः, 'राष्ट्रे' मण्डले 'बलावल' सहिष्णुत्वासहिष्णुत्वलक्षणं ज्ञात्वाऽऽत्मनः यथा यथाss - त्मनः संयमयोगहानिर्न जायते तथा तथेत्यभिप्रायः, अन्यच सिंहवत् 'शब्देन' प्रस्तावाद्भयोत्पादकेन 'न समत्रस्यत्' नैव सत्त्वाच्चलितवान् सिंहदृष्टान्ताभिधानं च तस्य सात्त्विकत्वेनातिस्थिरत्वात्, अत एव च वाग्योगम् अर्थाद् दुःखोत्पादकं 'सोच'ति श्रुत्वा 'न' नैव 'असभ्यम्' अश्लीलरूपम् ' आहुति उक्तवान् । तर्हि किमयमकरोदित्याह – 'उपेक्षमाणः ' तमवधीरयन् पर्यव्रजत्, तथा 'प्रियम्' अनुकूलम् 'अप्रियम्' | अननुकूलं 'सब तितिक्खएज'त्ति सर्वम् 'अतितिक्षत' सोढवान् किञ्च - 'न सवत्ति सर्व वस्तु सर्वत्र स्थानेऽभ्यरोचयत, न यथादृष्टाभिलाषुकोऽभूदिति भावः, यदिवा यदेकत्र पुष्टालम्बनतः सेवितं न तत्सर्वम् - अभिमताहारादि सर्वत्राभिलषितवान्, न चापि पूजां गहीं वाऽभ्यरोचयतेति सम्बन्धः, इह च गहतोऽपि कर्मक्षय इति | केचिदतस्तन्मतव्यवच्छेदार्थ गर्हाग्रहणं, यद्वा गर्हा - परापवादरूपा । ननु भिक्षोरपि किमन्यथाभावः संभवति ? येनेत्थमित्थं च तद्गुणाभिधानमित्याह - 'अणेग' त्ति वृत्तार्द्ध, तत्र च 'अणेग'त्ति अनेके 'छन्दाः' अभिप्रायाः संभवन्तीति
"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org