________________
क्षीयते, 'तत्र' इत्युभयलोकाभावे सति 'लोके' जगति ॥ यदुक्तं स ज्ञास्यति पश्चादनुतापेनेति,तत्र यथाऽसौ परितप्यते । तथा दर्शयन्नुपसंहारमाह-एवमेव' उक्तरूपेणैव महाव्रतास्पर्शादिना प्रकारेण 'यथाच्छन्दाः' खरुचिविरचिताचाराः ।
कुशीला:-कुत्सितशीलास्तद्रूपः-तत्वभावः 'कुररीव' पक्षिणीव 'णिरट्ठसोय'त्ति निरर्थो-निष्प्रयोजनः शोको यस्याः ।। तसा निरर्थशोका 'परितापं' पश्चात्तापरूपम् 'एति' गच्छति, यथा चैषाऽऽमिषगृद्धा पक्ष्यन्तरेभ्यो विपत्प्राप्तौ ।
शोचते न च ततः कश्चिद् विपत्प्रतीकार इति,एवमसावपि भोगरसगृद्ध ऐहिकामुष्मिकानर्थप्राप्तौ, ततोऽस्य खपरप-2 रित्राणासमर्थत्वेनानाथत्वमिति भाव इति त्रयोदशसूत्रार्थः ॥ एतत् श्रुत्वा यत्कृत्यं तदुपदेष्टुमाह
सुच्चाण मेहावि सुभासियं इमं, अणुसासणं नाणगुणोववेयं ।
मग्गं कुसीलाण जहाय सव्वं, महानियंठाण वए पहेणं ॥५१॥ सुगम, नवरं महावि'त्ति मेधाविन् ! सुष्टु-शोभनप्रकारेण भाषितं सुभाषितम् ‘इमम्' इत्यनन्तरोक्तम् 'अनुशासनं' विषदनदोषदर्शनार्थावृत्त्या शिक्षणं ज्ञानस्य गुणो ज्ञात्वा विरमणात्मकस्तेन, ज्ञानगुणाभ्यां वोपपेतं-युक्तं - ज्ञानगुणोपपेतं 'वयेत्ति ब्रजेस्त्वं पहेणं ति पथा' मार्गेण महानिर्ग्रन्थानामिति सम्बन्धः॥ ततः किं फलमित्याह
चरित्तमायारगुणन्निए तओ, अणुत्तरं संजम पालिया णं । निरासवे संखविया ण कम्मं, उवेइ ठाणं विलुउत्तम धुवं ॥५२॥
Jain Education
Tinal
For Personal & Private Use Only
MIw.jainelibrary.org