________________
च 'अहो ?' इत्याश्चर्ये 'वर्णः' सुस्निग्धो गौरतादिः 'रूपम्' आकारः 'सौम्यता' चन्द्रस्येव द्रष्टुरानन्ददायिता 'असङ्गता' निःस्पृहता, पादवन्दनानन्तरं प्रदक्षिणाऽभिधानं पूज्यानामालोक एव प्रणामः क्रियत इति ख्यापनार्थ, तथा है। चागमः-"आलोए जिणपडिमाणं पणामं करेति"त्ति । 'प्रतिपृच्छति' प्रश्नयति, तरुणेत्यादिना प्रश्नखरूपमुक्तम् , इह च यत एव तरुणोऽत एव प्रबजितो भोगकाल इत्युच्यते, तारुण्यस्य भोगकालत्वात् , यद्वा तारुण्येऽपि रोगादिपीडायां न भोगकालः स्यादित्येवमभिधानं, सोऽपि कदाचित्संयमेऽनुद्यत एव स्यात् त्वं पुनरुपस्थितश्च-कृतोद्यमश्च श्रामण्ये, पठन्ति च 'उवहितोऽसित्ति, एनम् 'अर्थ'निमित्तं येनार्थेन त्वमीश्यामप्यवस्थायां प्रबजितः शृणोमि 'ता' इति तावत् , पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति भाव इति श्लोकसप्तकार्थः ॥ इत्थं राज्ञोक्ते मुनिराह__अणाहो मि महारायं, नाहो मज्झ न विजई । अणुकंपयं सुहिं वावि, कंची नाहि तुमे महं ॥९॥
'अनाथः' अखामिकोऽस्मीत्यहं 'महाराज!' प्रशस्यनृपते !, किमित्येवं ? यतो 'नाथः' योगक्षेमविधाता मम न विद्यते, तथा 'अणुकंपगं'ति आपत्वादनुकम्पको यो मामनुकम्पते, 'सुर्हिति तत एव सुहृद् 'वावि'त्ति प्राग्वदेव । 'कंचित्ति कश्चिन्न विद्यते, ममेति सम्बन्धः, 'नाहित्ति प्रक्रमादनन्तरोक्तमर्थ जानीहि 'तुमि'त्ति त्वं, पठ्यते च'कंची नाभिसमेमहं' कश्चिदनुकम्पकं सुहृदं वाऽपि 'नाभिसमेमि' नाभिसंगच्छामि, न केनचिदनुकम्पेन सुहृदा वा सङ्गतोऽहमित्यादिनाऽर्थेन तारुण्येऽपि प्रबजित इति भाव इति सूत्रार्थः ॥ एवं च मुनिनोक्ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org