SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 2 सितं-बद्धमिहाष्टविधं कर्म तद् ध्मातं-भस्मसाद्भूतमेषामिति सिद्धाः-ध्यानानलनिर्दग्धाष्टकर्मेन्धनाः, उक्तं हि "सियं धंतन्ति सिद्धस्स, सिद्धत्तमुवजायति"त्ति, तेभ्यः, कोऽभिप्रायः ?-तीर्थकरसिद्धेभ्य इतरेभ्यश्च 'नमो' नम-18 स्कारं 'कृत्वा'-विधाय 'संयतेभ्यश्च' सकलसावधव्यापारोपरतेभ्य आचार्योपाध्यायसर्वसाधुभ्यः इतियावत् ४ भावतः' परमार्थतो न तु संवृत्त्यैव, इत्थं पञ्चपरमेष्ठिरूपेष्टदेवतास्तवमभिधायाभिधेयादित्रयमेवाह-अर्थश्च धर्म वार्थधौं यदिवाऽर्थ्यते-हितार्थिभिरभिलष्यते इत्यर्थः, स चासो धर्मश्चार्थधर्मस्ततस्तयोस्तस्य वा गतिः-गत्यर्थानां 2 ६ ज्ञानार्थतया हिताहितलक्षणा खरूपपरिच्छित्तिर्यया यस्यां वा साऽर्थधर्मगतिस्तां, पाठान्तरतोऽर्थधर्मवतीं वा । 'तचंति तथ्याम्-अविपरीताम् 'अनुशिष्टिं हितोपदेशरूपां शिक्षा 'शृणुत' आकर्णयत 'मे' इति मम मया वा कथयतः कथ्यमानां वेति शेषः, स्थविरवचनमेतत् , अनेन च पूर्वोत्तरकालभाविक्रियाद्वयानुगतैककर्तृप्रतिपादनेनात्म-|| नो नित्यानित्यत्वमाह, एकान्तनित्यत्वे ह्यविचलितरूपत्वान्न पूर्व क्रियाकर्तृत्वखरूपपरिहारेणोत्तरक्रियाकर्तृत्वाख्यख-18 | रूपान्तरसम्भवः, एकान्तानित्यत्वपक्षे तु क्षणध्वंसित्वादुत्तरक्रियाकाल आत्मनोऽसत्त्वमेवेति नैकान्तनित्यानित्यप-12 क्षयोः पूर्वोत्तरक्रियानुगतैककर्तृसम्भव इति भावनीयम् , इह चानुशिष्टिरभिधेया, अर्थधर्मगतिः प्रयोजनम् , अन- योश्च परस्परमुपायोपेयभावलक्षणः सम्बन्धः सामर्थ्यादुक्त इति सूत्रार्थः ॥ सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमाह K w Jain Educatiodikional For Personal & Private Use Only .jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy