________________
न्तरम्, इत्थमेकं प्रति, बहूनां तु पुलाकनिग्रन्थानां जघन्येनैकसमय उत्कृष्टेन पुलाकस्य सङ्ख्येयानि वर्षाणि न्थस्य षण्मासाः, उक्तं हि-"सेढिं नियमा छम्मासाउ पडिवजंतित्ति" शेषाणां नास्त्येव ३१। द्वारं । 'समुग्धाय'त्ति पुलाकस्य वेदनाकषायमारणान्तिकसमुद्घातास्त्रयो, बकुशप्रतिसेवकयोस्त एव वैक्रियतैजसान्विताः पञ्च, कषायकुशीलस्य तु त एवाहारकसहिताः षड्,निर्ग्रन्थस्यैकोऽपि नास्ति, स्नातकस्य केवलिसमुद्घात एकः३२॥ द्वारं ।। 'खेत्त'त्ति पुलाकादयश्चत्वारो लोकस्यासङ्ख्येयभागे नो सङ्ख्येयभागे न सङ्खयेयेष्वसङ्ख्येयेषु वा भागेषु नापि सर्वलोके, स्नातकोऽसङ्ख्येयभागेऽसङ्खयेयेषु भागेषु सर्वलोके वा, न शेषेषु, तथा च प्रज्ञप्तिः-"सिणाए पुच्छा, गोयमा ! नो । संखिजे भागे हुजा असंखिजे भागे हुज्जा णो संखेजेसु भागेसु होजा असंखिजेसु भागेसु हुज्जा सवलोए वा १) होजत्ति” चूर्णिकारस्त्वाह-सङ्खयेयभागादिषु सर्वेषु भवति ३३ । द्वारं । 'फुसणा उत्ति स्पर्शना च क्षेत्रवद्वाच्या |३५। द्वारं। 'भावे'त्ति पुलाकादयस्त्रयः क्षायोपशमिके भावे, निग्रन्थ औपशमिके क्षायिके वा,स्नातकः क्षायिके, इह तु पुलाकादयो निग्रन्थाः, निर्ग्रन्थत्वं तु चारित्रनिमित्तमिति तद्धेतुभूतस्यैव भावस्य विवक्षितत्वादित्थमभिधानम् , अन्यथा मनुष्यत्वादेरौदयिकादेरपि भावस्य सम्भवात् ३५। द्वारं। 'परिमाण'त्ति पुलाकाः प्रतिपद्यमानकाः कदाचित्सन्ति कदाचिन्नेति, यदा सन्ति तदा जघन्येनैको द्वौ वा त्रयो वा, उत्कृष्टतः शतपृथक्त्वं, पूर्वप्रतिपन्ना अपि यदि स्युस्तदा जघन्येन तथैवोत्कृष्टेन सहस्रपृथक्त्वं, बकुशाः प्रतिपद्यमानका यदा स्युस्तदा जघन्येनोत्कृष्टेन च पुला
dain Education
mana
For Personal & Private Use Only
MAHainelibrary.org