SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ChoCROCOM महप्पभावस्स महाजसस्स, मियाइपुत्तस्स निसम्म भासियं । तवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोअविस्सुतं ॥९७॥ वियाणिया दुक्खविवडणं धणं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निव्वाणगुणावहं महं ॥९८॥ तिबेमि ॥ ॥ मियापुत्तीजं ॥ १७ ॥ सूत्रद्वयं निगदसिद्धमेव, नवरं मृगापुत्रस्य 'भाषितं' संसारदुःखरूपतावेदकं यत्तेन पित्रोः पुरत उक्तं, प्रधानं तपो यत्र चरिते तत्प्रधानतपो, व्यत्ययनिर्देशश्च प्राग्वत् , 'चरितं च चेष्टितं 'गतिप्पहाणं च'इति प्रधानगतिं च मुक्तिमिति योऽर्थः, 'त्रिलोकविश्रुतां' जगत्रितयप्रतीताम् , अनेन च फललिप्सवो हि प्रेक्षावन्तः प्रवर्तन्त इति काका फलमाह । एतन्निशमनाच ममत्वं बन्ध इव सत्प्रवृत्तिविघातितया ममत्ववन्धस्तं च, महाभयावहं तत एव चौरादिभ्यो महाभया-2 वाप्तेः, धर्मो धूरिव महासत्त्वैरुह्यमानतया धर्मधुरा-महाव्रतपञ्चकात्मिका तां, तथा निर्वाणगुणा-अनन्तज्ञानदर्श-2 है नवीर्यसुखादयस्तदावहां-तत्प्रापिका धर्मधुरां धारयतेति सम्बन्धः । इह च निर्वाणगुणावहत्वं सुखावहत्वे हेतुः 'महंति' अपरिमितमाहात्म्यतया महतीं, सूत्रत्वाच्चैवं निर्देश इति सूत्रद्वयार्थः ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ॥ इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटीकायामेकोनविंशमध्ययनं समाप्तम् ॥ C HOTECE Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy