________________
AURUSLARARA
वेइया मए ॥७२॥जारिसा माणुसेलोए, ताया! दीसंति वेयणा । इत्तो अणंतगुणिया, नरएसं दुक्खवेयणा 18|॥७३ ॥ सव्वभवेसु अस्साया, वेयणा वेइया मए । निमिसंतरमित्तंपि, जं साया नत्थि वेयणा ॥ ७४ ॥ | सूत्राण्येकत्रिंशत् प्रतीतान्येव, नवरं 'तद्' अनन्तरोक्तं "विति' 'ब्रुवन्तौ' अभिदधतौ अम्बापितरौ, प्रक्रमान्मूगापुत्र आह, यथा एवमित्यादि, पठ्यते च,-'सो बेअम्मापियरो !' ति स्पष्टमेव नवरमिह अम्बापितरावित्यामन्त्रणपदं, पठन्ति च-'तो बेंतऽम्मापियरो'त्ति 'विति'त्ति वचनव्यत्ययात्ततो ब्रूते अम्बापितरौ मृगापुत्र इति प्रक्रमः, 'एवमिति यथोक्तं भवद्भ्यां तथा 'एतत्' प्रव्रज्यादुष्करत्वं 'यथास्फुटं' सत्यतामनतिक्रान्तमवितथमिति-13 यावत् , तथाऽपीहलोके 'निष्पिपासस्य' निःस्पृहस्य, इहलोकशब्देन च 'तात्स्थ्यात्तद्यपदेश' इतिकृत्वा ऐहलौकिकाः खजनधनसम्बन्धादयो गृह्यन्ते, 'नास्ति' न विद्यते "किश्चित् अतिकष्टमपि शुभानुष्ठानमिति गम्यते, अपिः' संभावने। 'दुष्कर' दुरनुष्ठेयं,भोगादिस्पृहायामेवास्स दुष्करत्वादिति भावः॥ निःस्पृहताहेतुमाह-'शारीरे'त्यादिना,तत्राप्याद्यसू-2 त्रद्वयेन सामान्येन संसारस्य दुःखरूपत्वमुक्तम् ,इह च शरीरमानसयोर्भवाः शारीरमानस्यो वेदनाः प्रस्तावादसातरूपाः 'दुक्खभयाणि यत्ति दुःखोत्पादकानि राजविड्डरादिजनितानि (भयानि) दुःखभयानि, जरामरणाभ्यामतिगहनतया कान्तारं जरामरणकान्तारं तस्मिंश्चत्वारो-देवादिभवा अन्ता-अवयवा यस्यासौ चतुरन्तः-संसारः तत्र 'सोढानि' तदुत्थवेद नासहनेनानुभूतानि 'भीमानि' अतिदुःखजनकत्वेन रौद्राणि ॥ शारीरमानस्यो वेदना यत्रोत्कृष्टाः सोढा
*
*
Jain Education
national
For Personal & Private Use Only
www.jainelibrary.org