SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अकाम उत्तराध्य. व्याख्या-अगारिणो-गृहिणः सामायिक-सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि-निःशङ्कताकालाध्ययना-2 णुप्रतादिरूपाणि अगारिसामायिकाङ्गानि, 'सहित्ति सूत्रत्वात् श्रद्धा-रुचिरस्थास्तीति श्रद्धावान् , कायेनेत्युपलक्ष-18 बृहद्वृत्तिः णत्वान्मनसा वाचा च 'फासईत्ति स्पृशति सेवते, पोषणं पोषः, स चेह धर्मस्य तं धत्त इति पोषधः-आहारपो मरणाध्य. ॥२५॥ धादिः, तं 'दुहतो पक्ख'न्ति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपूर्णिमास्यादिषु तिथिषु 'एगराई ति अपेर्गम्यमानत्वादेकरात्रमपि, उपलक्षणत्वाञ्चैकदिनमपि, 'न हावए'त्ति न हापयति-न हानि प्रापयति, रात्रि६ ग्रहणं च दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पोषधं कुर्यात् , इह च सामायिकाङ्गत्वेनैव सिद्धेर्यदस्य भेदेनोपादानं तदादरख्यापनार्थमदुष्टमेव, यद्वा-यत एवं गृहस्थोऽपि सुव्रतो दिवं कामति अतोऽगारी सामायिकाङ्गानि । स्पृशेत् पोषधं च न हापयेदित्युपदेशपरतया व्याख्येयमिति सूत्रार्थः ॥ २३ ॥ प्रस्तुतमेवार्थमुपसंहर्तुमाह एवं सिक्खासमावन्नो, गिहवासेऽवि सुव्वओ । मुच्चति छविपवाओ, गच्छे जक्खसलोगयं ॥ २४॥ | | व्याख्या-'एवम्' अमुनोक्तन्यायेन शिक्षया-व्रतासेवनात्मिकया समापन्नो-युक्तः शिक्षासमापन्नो गृहवासेपि, आस्तां प्रव्रज्यापर्याय इत्यपिशब्दार्थः, 'सुव्रतः' शोभनव्रतो मुच्यते, कुतः १-छविः-त्वक् पर्वाणि च-जानुकूप- ॥२५१॥ रादीनि छविपर्व तद्योगादौदारिकशरीरमपि छविपर्व ततः, तदनन्तरं च 'गच्छेद्' यायात् यक्षा-देवाः समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता यः सलोकता यक्षसलोकता ताम् , इयं च देवगतावेव भवतीत्याद्देव (-%ARSAC SCGS dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy