________________
उत्तराध्य.
सा चासौ दृष्टिश्चैकान्तरष्टिस्तया-अनन्याक्षिप्तया, अहिपक्षे दृशा, अन्यत्र तु बुद्ध्योपलक्षितम्, एकान्त- मृगापुत्री
दृष्टिकं वा चारित्रं दुश्चरं, विषयेभ्यो मनसो दुर्निवारत्वादिति भावः, 'जवा लोहमया चेव'त्ति एवकारस्योपमार्थ-11, बृहद्वृत्तिः । त्वाद्यवा लोहमया इव चर्वयितव्याः, किमुक्तं भवति ?-लोहमययवचर्वणवत्सुदुष्करं चारित्रम् ॥ 'अमिशिखा' ।
या० १९ ॥४५७॥
अग्निज्वाला 'दीसे' त्युज्ज्वला ज्वालाकराला वा, द्वितीयार्थे चात्र प्रथमा, ततो यथाऽग्निशिखां दीप्तां पातुं सुदुष्कर, नृभिरिति गम्यते, यदिवा लिङ्गव्यत्ययात् सर्वधात्वर्थत्वाच्च करोतेः 'सुदुष्करा' सुदुःशका यथाऽग्निशिखा दीप्ता पातुं भवतीति योगः, एवमुत्तरत्रापि भावना, 'जे' इति निपातः सर्वत्र पूरणे, कोत्थल इह वस्त्रकम्बलादिमयो । गृह्यते, चर्ममयो हि सुखेनैव भ्रियेतेति, "क्लीवेन' निःसत्त्वेन 'निभृतं निःशङ्क' मित्यत्र निभृतं-निश्चलं विषयाभिलाषादिभिरक्षोभ्यं 'निःशङ्क' शरीरादिनिरपेक्षं शङ्काख्यसम्यक्त्वातिचारविरहितं वा ॥ १८ ‘अनुपशान्तेन' उत्कटकषायेण, इह च दमसागर इत्यनेन प्राधान्यख्यापनार्थ केवलस्यैवोपशमस्य समुद्रोपमाभिधानं, पूर्वत्र तु गुणोदधिरित्यनेन निःशेषगुणानामिति न पौनरुक्त्यं ॥ यतश्चैवं तारुण्ये दुष्करा प्रव्रज्याऽतो भुञ्जेत्यादिना पितरौ कृत्यो
॥४५७॥ पदेशं ब्रूतः, भुज्यन्त इति भोगास्तान् ‘पञ्चलक्षणकान्' शब्दादिपञ्चकखरूपान् 'ततः' इति भोगभुक्तेरनन्तरं 'जाय'ति । जातपुत्रः 'पश्चादिति वार्द्धक्ये 'चरिस्ससित्ति चरेरिति विंशतिसूत्रावयवार्थः ॥ २४-४३॥ सम्प्रति तद्वचनानन्तरं यन्मृगापुत्र उक्तवांस्तदाह
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org