________________
| पापकारिणः, ये त्वेवंविधा न भवन्ति ते किमित्याह - 'दिव्यां च गतिं ' देवलोकगतिं चशब्दः पुनरर्थे, स च पूर्वेभ्यो विशेषद्योतकः, 'गच्छन्ति' यान्ति 'चरित्वा' आसेव्य धर्मः श्रुतधर्मादिरनेकविधः, इह च सत्प्ररूपणारूपः श्रुतधर्म एव तं, आर्य-प्राग्वत्, तदयमभिप्रायः -असत्प्ररूपणापरिहारेण सत्प्ररूपणापरेणैव च भवता भवितव्यमिति सूत्रार्थः ॥ कथं पुनरमी पापकारिण इत्याह
मायाबुइयमेयं तु, मुसा भासा निरत्थिया । संजममाणोऽवि अहं, वसामि इरियामि य ॥ २६ ॥ मायया - शाठ्येन वुइयंति-उक्तं मायोक्तम् 'एतत्' यदनन्तरं क्रियादिवादिभिरुक्तं, 'तुः' एवकारार्थी भिन्नक्रमश्च मायोक्तमेव, अतश्चैतत् 'मृषा' अलीका 'भाषा' उक्तिः 'निरर्थिका' सम्यगभिधेयशून्या, तत एव च 'संजममाणोऽवि'त्ति 'अपिः' एवकारार्थस्ततः संयच्छन्नेव - उपरमन्नेव तदुक्त्याकर्णनादितः 'अहम्' इत्यात्मनिर्देशे विशेषतस्तत्स्थिरीकरणार्थम्, उक्तं हि - "ठियतो ठावए परं" ति, 'वसामि' तिष्ठामि उपाश्रय इति शेषः, 'इरियामि य'ति ईरे च - गच्छामि च गोचरचर्यादिष्विति सूत्रार्थः ॥ इदमपि सूत्रं प्रायो न दृश्यते । कुतः पुनस्त्वं तदुक्त्याकर्णनादिभ्यः | संयच्छसीत्याह - अनन्तरसूत्राभावे च यदुक्तं चतुर्भिः स्थानैर्मेयज्ञाः किंप्रभाषन्ते इति, तत्कुत इत्याह
सव्वे ते विझ्या मज्झं, मिच्छादिट्ठी अणारिया । विजमाणे परे लोए, सम्मं जाणामि अप्पगं ॥ २७ ॥ 'सर्वे' निरवशेषाः 'ते' क्रियादिवादिनः 'विदिताः' ज्ञाता मम, यथाऽमी 'मिच्छद्दिट्टि 'त्ति मिथ्या - विपरीता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org