________________
***
***
*
पापपङ्कापगमनेनात्यन्तनिर्मलीभूतैः, शेषतीर्थकृद्भिरिति गम्यते, आख्यातं । पठ्यते च 'विप्पसण्णमणाघाय'ति, तत्र
प्रकारः प्रसन्ना-मरणेऽप्यपहतमोहरेणुतयाऽनाकुलचेतसो विप्रसन्नाः, तत्सम्बन्धि मरणमप्युपचाराद्विप्रसन्नं, न विद्यते आघातः तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत् संलिखितशरीरतया यस्मिंस्तदनाघातं, केषां पुनरिदम् ?, उच्यते-'संयताना' समिति-सम्यग् यतानां-पापोपरतानां, चारित्रिणामित्यर्थः, 'खुसीमतो'त्ति, आर्षत्त्वावश्यवतां वश्य इत्यायत्तः, स चेहात्मा इन्द्रियाणि वा, वश्यानि विद्यन्ते । येषां वे अमी वश्यवन्तः तेषाम् , अयमपरः सम्प्रदायार्थः-वसंति वा साहुगुणेहिं वुसीमंतः, अहवा बुसीमा संविग्गा 3 तेसिं'ति एतच्चार्थात् पण्डितमरणमेव, ततोऽयमर्थः-यथैतत् संयतानां वश्यवतां विप्रसन्नमनाघातं च सम्भवति,
न तथाऽपुण्यप्राणिनाम् । अन्ते समाहिमरणं अभवजीवा ण पावेंति'त्ति वचनात् , विशिष्टयोग्यतामाजामेव तत्प्रा||प्तिसम्भवादिति सूत्रार्थः ॥ १८ ॥ यथा चैतदेवं तथा दर्शयितुमाह
न इमं सव्वेसु भिक्खूमुं, ण इमं सव्वेसु गारिसु । नानासीला य गारत्था, विसमसीला यभिक्खुणो॥१९॥ | व्याख्या-ने'त्यवधारणफलत्वाद्वाक्यस्य नैव 'इद'मिति पण्डितमरणं 'सक्वेसु भिक्खूसु'त्ति सूत्रत्वात् सर्वेषां भिक्षूणां परदत्तोपजीविनां अतिनामितियावत् , किन्तु केषाश्चिदेव परोपचितपुण्यानुभाववतां भावभिक्षूणां, तथा च
१ वसन्ति वा साधुगुणैः वसीमन्तः, अथवा वशिमानः संविग्नास्तेषामिति । २ अन्ते समाधिमरणमभव्यजीवा न प्रामुवन्ति
*
*
**
*
For Personal & Private Use Only
Jain Education Internal
Mjainelibrary.org