SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ सन्तापोपतप्तानां जन्तूनां निर्वृत्तिहेतुतयाऽभिलषितफलप्रदानतश्च धर्मारामस्तस्मिन् 'चरेत्' गच्छेत् प्रवर्त्ततेतिया-2 ६ वत्, यद्वा धर्मे आ-समन्ताद्रमत इति धर्मारामः ‘संचरेत्' संयमाध्वनि यायाद् भिक्षुः प्राग्वत् 'धृतिमान्' धृतिः-2 चित्तखास्थ्यं तद्वान्, स चैवं धर्मसारथिः-"ठिओ उ ठावए परं" इति वचनादन्येषामपि धर्मे प्रवर्तयिता, ततोऽन्यानपि धर्मे व्यवस्थितानुपलभ्य विशेषतो धर्मारामे रतः-आसक्तिमान् धर्मारामरतः, तथा च 'दान्तः' उपशान्तो ब्रह्मचर्ये समाहितः-समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रद्वयार्थः ॥ ब्रह्मचर्यविशुद्धयर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाह देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति तं ॥१६॥ | देवाः-ज्योतिष्कवैमानिकाः दानवाः-भुवनपतयः गन्धर्वयक्षराक्षसकिन्नराः-व्यन्तरविशेषाः समासः सुकर एव, उपलक्षणं चैतद्भतपिशाचमहोरगकिंपुरुषाणाम् , एते सर्वेऽपि 'ब्रह्मचारिणं' ब्रह्मचर्यवन्तं यतिमिति शेषः, 'नमस्यन्ति' नमस्कुर्वन्ति 'दुष्करं' कातरजनदुरनुचरं 'जे' इति यः 'करोति' अनुतिष्ठति 'तदिति प्रक्रमाद्ब्रह्मचर्यमिति सूत्रार्थः ॥ सम्प्रति सकलाध्ययनार्थोपसंहारमाह एस धम्मे धुवे नियए, सासए जिणदेसिए। सिद्धा सिझंति चाणेणं, सिजिझस्संति तहापरे ॥१७॥ त्ति बेमि ॥ For Personal & Private Use Only w.jainelibrary.org Main Education
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy