________________
पठ्यते च - 'धर्म्मलडं' ति धर्मः - उत्तमः क्षमादिरूपः, यथाऽऽह वाचकः - ' उत्तमः क्षमामार्दवार्जवसत्यशौचसंयमत| पस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः" (तत्त्वार्थ अ०९ सू०६) इति, तं ' लब्धुं' प्राप्तुं कथं ममायं निरतिचारः स्यात् इति, 'मितम् ' 'अद्धमसणस्स' इत्याद्यागमोक्तमानान्वितमाहारमिति गम्यते, 'काले' प्रस्तावे 'यात्रार्थ' संयमनिर्वाहणार्थं न तु रूपाद्यर्थं 'प्रणिधानवान्' चित्तखास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीत 'न' इति निषेधे मात्रामतिक्रान्तः अतिमात्रः-| अतिरिक्त इत्यर्थस्तं यदिवा 'ईषदर्थे क्रियायोगे, मर्यादायां परिच्छद' इत्यादिना मात्राशब्दस्य मर्यादार्थस्यापि दर्शनाद् 'अतिमात्रम्' अतिक्रान्तमर्यादं, तुशब्दस्यैव कारार्थत्वाद्व्यवहितसम्बन्धत्वाच्च नैव 'भुञ्जीत' अभ्यवहरेद् ब्रह्मचर्ये रतः - आसक्तो ब्रह्मचर्यरतः 'सदा' सर्वकालं, कदाचित्कारणतोऽतिमात्रस्याप्याहारस्यादुष्टत्वात् ॥ ८ ॥ 'विभूषाम्' उपकरणगता-मुत्कृष्टवत्राद्यात्मिकां 'परिवर्जयेत्' परिहरेत् 'शरीरपरिमण्डनं' केशश्मश्रुसमारचनादि ब्रह्मचर्यरतो भिक्षुः 'शृङ्गारार्थ' विलासार्थ' ' न धारयेत्' न स्थापयेत् न कुर्यादितियावत् ॥९॥ ' सद्दे' सूत्रं स्पष्टमेव, नवरं कामः - इच्छाम| दनरूपस्तस्य द्विविधस्यापि गुणाः - साधनभूता उपकारका इतियावत् उक्तं हि - 'गुणः साधनमुपकारकं' कामगुणास्तानेवंविधान् शब्दादीनिति सूत्रदशकार्थः ॥ १० ॥ सम्प्रति यत्प्राक् प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तद्दृष्टान्ततः | स्पष्टयितुमाह
Jain Educational
आओ थीजणाइन्नो, थीकहा य मणोरमा । संथवो चेव नारीणं, तासिं इंदियदसिणं ॥ ११ ॥ कुइयं रुइयं गीयं, हसियं भुत्तासियाणि य । पणीयं भत्तपाणं च, अइमायं पाणभोयणं ॥ १२ ॥
For Personal & Private Use Only
www.jainelibrary.org