________________
मखादिमं च उक्तरूपं 'परेसिं' ति 'परेभ्यः' गृहस्थेभ्यः 'लडं'ति 'लब्ध्वा' प्राप्य यः 'तं'ति सुव्यत्ययात्तेनाहारा - दिना 'त्रिविधेन' मनोवाक्कायलक्षणेन प्रकारत्रयेण नानुकम्पते, कोऽर्थः १ - ग्लानवालादीन्नोपकुरुते न स भिक्षुरिति | वाक्यशेषः, यस्तु मनोवाक्कायैः सुष्ठु संवृतो निरुद्धतथाविधाहाराद्यभिलाषः सुसंवृता वा मनोवाक्काया यस्येति सुसंवृतमनोवाक्कायः, तत एव ग्लानादीननुकम्पत इति गम्यते, स भिक्षुः, यदिवा 'नानुकम्पते' इत्यत्र 'ना' पुरुषोऽनुक[म्पते [ नानुरूपो न कम्पते ] मनोवाक्कायसुसंवृतः सन् स भिक्षुरिति सूत्रार्थः ॥ अनेनार्थतो गृद्ध्यभावाभिधानादङ्गा|रदोषपरिहार उक्तः, सम्प्रति धूमपरिहारमाह
आयामगं चैव जवोदणं च, सीयं सोवीरजवोद्गं च ।
नो ही पिंड नीरसं तु, पंतकुलाणि परिव्वए स भिक्खू ॥ १३ ॥
आयाममेव आयामकम् - अवश्रावणं चशब्द उत्तरापेक्षया समुच्चये स्वगतानेकभेदख्यापको वा, 'एव' इति प्राग्वत्, 'यवोदनं च' यवभक्तं 'सीयं 'ति शीतं - शीतलमन्तप्रान्तोपलक्षणं चैतत्, सोवीरं - आचाम्लं यवोदकं च- यवप्रक्षालनं पानीयं सोवीरयवोदकं तच्च 'नो हीलयेत्' धिगिदं किमनेनामनोज्ञेनेति न निन्देत् पिण्ड्यते - सङ्घात्यते, कोऽर्थः ? — गृहिभ्यः उपलभ्य संमील्यत इति पिण्डस्तमायामकाद्येव 'नीरसं' विगताखादं 'तुः' अध्यर्थस्ततो नीरसमपि, अत | एव 'प्रान्तकुलानि ' तुच्छाशयगृहाणि दरिद्रकुलानि वा यः परित्रजेत्स भिक्षुरिति सूत्रार्थः ॥ अन्यच -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org