SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ न 'पूजा' वस्त्रपात्रादिभिः सपर्या, 'नो अपि च' इति नैव च 'वन्दनक' द्वादशावर्त्तादिरूपं, कुतः 'प्रशंसा' निजगुणोत्कीर्तनरूपां?, नैवेच्छतीत्यभिप्रायः, 'सः' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतोऽत एव च सुव्रतः, सुव्रतत्वाच 'तपखी' प्रशस्यतपाः, तथा च सहितः सम्यगज्ञानक्रियाभ्यां, यद्वा सह हितेन-आयतिपथ्येन अर्थादनुष्ठानेन वर्तत इति सहितः, तत एव चात्मानं-कर्मविगमाच्छुद्धखरूपं गवेषयति-कथमयमित्थंभूतो भवे दित्यन्वेषयते यः स आत्मगवेषकः, यद्वा आयः-सम्यग्दर्शनादिलाभः सूत्रत्वादायतो वा-मोक्षस्तं गवेषयतीत्याय-21 ४ गवेषक आयतगवेषको वा यः स भिक्षुरिति सूत्रार्थः ॥ अनेन सत्कारपुरस्कारपरीषहसहनमुक्तं, सम्प्रति स्त्रीपरीषहसहनमाह जेण पुणो जहाइ जीवियं, मोहं वा कसिणं नियच्छई। नरनारिं पयहे सया तबस्सी, न य कोऊहलं उवेइ स भिक्खू ॥६॥ है येन हेतुना, पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतकः, 'जहाति' त्यजति जीवितं' संयमजीवितं 'मोहं वा' मोहनीयं वा कपायनोकषायादिरूपं 'कृत्स्नं' समस्तं कृष्णं वा शुद्धाशयविनाशकतया 'नियच्छति' बनाति तदेवंविधं नरश्च नारी च नरनारि 'प्रजह्यात्' प्रकर्षेण त्यजेत् यः 'सदा' सर्वकालं तपस्वी, न च 'कुतूहलम्' अभु Jain Education Ana For Personal & Private Use Only M ainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy