________________
एवोद्विमानि-प्रस्तानि जन्ममृत्युभयोद्विग्नानि 'दुःखस्य' असातस्यान्तः-पर्यन्तस्तद्वेषकाणि तदन्वेषकाणि सापेक्षस्थापि समासो यथा देवदत्तस्य गुरुकुलमिति। पुनस्तद्वक्तव्यतामेवाह-शासने' दर्शने विगतमोहानाम्-अर्हता पूर्व'-12 मित्यन्यजन्मनि भावनया-अभ्यासरूपया भावितानि-वासितानि भावनामावितानि, यद्वा भाविता भावना यैस्तानि । |भावितभावनानि, पूर्वोत्तरनिपातस्यातन्त्रत्वाद् , अत एवाचिरेणैव-खल्पेनैव कालेन 'दुःखस्यान्तं' मोक्षम् 'उपागतानि' प्राप्तानि, सर्वत्र च प्राकृतत्वात्पुंल्लिङ्गनिर्देशः । मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाह-'राजा' इषुकारः ।
सह 'देव्या' कमलावत्या ब्राह्मणश्च पुरोहितो भृगुनामा ब्राह्मणी तत्पनी यसा दारको तत्पुत्रौ चैवेति पूर्ववत्सवाणि तानि 'परिनिर्वृतानि' कर्माम्युपशमतः शीतीभूतानि मुक्तिं गतानीतियावदिति सूत्रत्रयार्थः ॥ इति'|| परिसमाप्तौ ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् ॥
HTRASTRRESTERESTRAMETROOTRASTRASTRAMRASTRAMRASTRa% । इति श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटीकायां शिष्यहितायां चतुर्दशमध्ययनं समाप्तमिति ॥ Lal"
" " " " "
Eder
Jalt Education International
For Personal & Private Use Only
www.jainelibrary.org