SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सुवण्णपासे वत्ति इवशब्दस्य भिन्नक्रमत्वात् आपत्वाच 'उरग इव' भुजग इव 'सौपर्णेयपाचँ गरुडसमीपे 'शङ्क-18 मानः' भयत्रस्तस्तन्विति-स्तोकं मन्दं यतनयेतियावत् 'चरेः' क्रियासु प्रवर्त्तख, अस्थायमाशयः-यथा सौपर्णेयोपमैविषयैर्न बाध्यसे तथा संयममासेवख, ततश्च किमित्याह-'णागोव' अर्द्ध स्पष्टम् , आशयश्चायं-यथा नागः बन्धन वरत्रान्दुकादि छित्त्वा' द्विधा विधायात्मनो 'वसति' विन्ध्याटवीं ब्रजति, एवं भवानपि कर्मबन्धनमुपहत्यात्मनो वसतिः-कर्मविगमतः शुद्धो यत्रात्माऽवतिष्ठते सा च मुक्तिरेव तां ब्रजेः, अनेन दीक्षायाः प्रसङ्गतः फलमुक्तम् । एवं चोपदिश्य निगमयितुमाह-'एतद् यन्मयोक्तं 'पथ्यं हितं 'महाराज !' प्रशस्यभूपते ? 'इषुकार !' इषुकारनामन् !, एतच न मया खमनीषिकयैवोच्यते, किन्तु 'इति' इत्येतन्मया 'श्रुतम्' अवधारितं साधुसकाशादिति गम्यत इति सूत्राष्टकार्थः ॥ एवं च तद्वचनमाकर्ण्य प्रतिबुद्धो नृपः, ततश्च यत्तौ द्वावपि चक्रतुस्तदाह चहत्ता विपुलं रजं, कामभोगे अ दुच्चए । निविसया निरामिसा, निन्नेहा निप्परिग्गहा ॥५०॥ सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे चरे । तवं पगिज्झऽहक्खायं, घोरं घोरपरकमा! ॥५१॥ 'त्यक्त्वा' प्रहाय 'विपुलं' विस्तीर्ण 'राष्ट्रं' मण्डलं, पाठान्तरतो राज्यं वा 'कामभोगांश्च' उक्तरूपान् 'दुस्त्यदजान' दुष्परिहारान् 'निर्विषयौ' शब्दादिविषयविरहितो अत एव निरामिषौ, यद्वा विषयो-देशस्तद्विरहितौ राष्ट परित्यागतः कामभोगत्यागतश्च निरामिषौ-अभिष्वङ्गहेतुविरहितो, कुतः पुनरेवंविधौ ?, यतो 'निःस्नेही निष्प्रति SAUSAGRACIASHARA dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy