________________
CACASSESCORESAMAKAM
सर्वदा सैवैका जन्मरात्रिः स्यात्ततो न द्वितीया मरणरात्रिः कदाचित्प्रादुष्प्यात् , ताश्चाधर्म कुर्वतो जन्तोरिति गम्यते || अफला यान्ति रात्रयः, अधर्मनिवन्धनं च गृहस्थतेत्यायुषोऽनित्यत्वादधर्मकरणे च तस्य निष्फलत्वात्तत्परित्याग 3 एव श्रेयानिति भावः । इत्थं व्यतिरेकद्वारेण प्रव्रज्याप्रतिपत्तिहेतुमभिधाय तमेवान्वयमुखेनाह–'जा जे'त्यादि| पूर्ववत् , नवरं 'धम्मं च' त्ति चशब्दः पुनरर्थे धर्म पुनः कुर्वतः सफला धर्मलक्षणफलोपार्जनतो, न च व्रतप्रतिपत्ति है। विना धर्म इत्यतो व्रतं प्रतिपत्स्यावहे इत्यभिप्राय इति सूत्रद्वयार्थः ॥ इत्थं कुमारवचनादाविर्भूतसम्यक्त्वस्तद्वचन-2
मेव पुरस्कुर्वन् भृगुराहनाएगओ संवसित्ता णं, दुहओ संमत्तसंजुया । पच्छा जाया! गमिस्सामो, भिक्खमाणा कुले कुले ॥२६॥ _ 'एकतः' एकस्मिन् स्थाने 'समुष्य' सहैवासित्वा 'दुहतो'त्ति द्वयं च द्वयं च द्वये आवां युवां च, व्यक्त्यपेक्षया बहुवचनं २
पुरुषप्राधान्याच पुंलिङ्गता, 'सम्यक्त्वसंयुताः' सम्यक्त्वेन-तत्त्वरुचिलक्षणेन संयुताः-सहिताः, उपलक्षणत्वाद्देशविहै रत्या च ‘पश्चादू' यौवनावस्थोत्तरकालं, कोऽर्थः ?-पश्चिमे वयसि, 'जाती' पुत्रौ ! 'गमिष्यामः' ब्रजिष्यामो वयं
ग्रामनगरादिषु, मासकल्पादिक्रमेणेति शेषः, अर्थाच प्रवज्यां प्रतिपद्य, 'भिक्षमाणाः' याचमानाः, पिण्डादिकमिति श गम्यते, क्व?-'कुले कुले' गृहे गृहे न त्वेकस्मिन्नेव वेश्मनि, किमुक्तं भवति ?-अज्ञातोन्छवृत्त्येति सूत्रार्थः ॥ कुमारावाहतुः
Jain Education
For Personal & Private Use Only
wwjainelibrary.org