SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. वृहद्वृत्तिः ॥३९७॥ रामृत्युभयाभिभूतौ, पाठान्तरतश्च जातिजरामृत्युभयाभिभूते सत्यर्थात् संसारिजने बहिः संसाराद्विहारः - स्थानं बहिर्विहारः, स चार्थान्मोक्षस्तस्मिन्नभिनिविष्टं – बद्धाग्रहं चित्तम् - अन्तःकरणं ययोस्तौ तथा संसारचक्रमिव चक्रं | भ्रमणोपलक्षितत्वात्संसारचक्रं तस्य विमोक्षणार्थ- परित्यागनिमित्तं 'दृष्ट्वा' निरीक्ष्य साधूनिति शेषः, यद्वा 'दृट्वे' ति प्रेक्ष्य मुक्तिपरिपन्थिनोऽमी कामगुणा इति पर्यालोच्य 'तौ' अनन्तरोक्तौ 'कामगुणे' त्ति सुव्यत्ययात् 'कामगुणेभ्यः' शब्दादिभ्यो विषयसप्तमी वा 'विरक्तौ' पराङ्मुखीभूतौ प्रियौ - बलभौ तौ च तौ पुत्रावेव पुत्रकौ द्वावपि नैक एव | इत्यपिशब्दार्थ : 'माहनस्य' ब्राह्मणस्य 'स्वकर्मशीलस्य' यजनयाजनादिखकीयानुष्ठाननिरतस्य 'पुरोहितस्य' शान्तिकर्त्तुः | | 'सरित' त्ति स्मृत्वा 'पोराणिय'त्ति सूत्रत्वात्पुराणामेव पौराणिकीं - चिरन्तनीं 'तत्रे'ति सन्निवेशे कुमारभावे वा, | वर्त्तमानाविति शेषः 'जाति' जन्म तथा 'सुचिणं ति सुचीर्ण सुचरितं वा निदानादिनाऽनुपहतत्वात् तपः - अनश | नादिः, प्राकृतत्वाद्विन्दुलोपः, संयमं च तपःसंयममिति समाहारद्वन्द्वो वा अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्ग - | प्रतिपत्तिरिति सूत्रद्वयार्थः ॥ ततस्तौ किमकार्थम् ? इत्याह Jain Education International ते कामभोगे असज्ज माणा, माणुस्सएसुं जे यावि दिव्वा । मुक्खाभिकखी अभिजायसडा, तातं उवागम्म इस उदाहु || ३ || 'तो' पुरोहितपुत्र 'कामभोगेषु' उक्तरूपेषु 'अराजमाण'त्ति असं सजती सकमकुर्वन्तौ 'मानुष्यकेषु' मनुजसम्म For Personal & Private Use Only इषुकारीय मध्ययनं . १४ ॥३९७ ॥ www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy