________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ३९६ ॥
Jain Educatio
तापिवि पवइयाणि, एवं ताणि छावि केवलणाणं पाविऊण णिवाणमुवगयाणित्ति ॥ इह तु सूत्रोक्तस्याप्यर्थ - स्वाभिधानं प्रसङ्गत इत्यदोषः । उक्तो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्-देवा भविताण पुरे भवंमी, केई चुया एगविमाणवासी । पुरे पुराणे इसुयारनामे, खाए समिद्धे सुरलोगरम्मे ॥ १ ॥ सकम्मसेसेण पुराकएणं, कुलेसु उग्गे (सुदत्ते ० ) सु य ते पसूआ । निव्विण्णसंसारभया जहाय, जिणिंदमग्गं सरणं पवन्ना ॥ २ ॥ पुमत्तमागम्म कुमार दोऽवि, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती य तआरो, रायऽत्थ देवी कमलावई य ॥ ३ ॥
'देवाः' सुराः 'भूत्वा' उत्पद्य 'पुरे भवमिति अनन्तरातीतजन्मनि 'केचित्' इत्यनिर्दिष्टनामानः 'च्युताः' भ्रष्टाः | एकस्मिन् पद्मगुल्मनानि विमाने वसन्तीत्येवंशीला एकविमानवासिनः 'पुरे' नगरे 'पुराणे' चिरन्तने इषुकारनाम्नि 'ख्याते' प्रथिते 'समृद्धे' ऋद्धिमत्यत एव 'सुरलोकरम्ये' देवलोकवद्रमणीये । ते च किं सर्वथोपभुक्तपुण्या एव तत्श्रयुता उतान्यथेत्याह - स्वम् - आत्मीयं कर्म - पुण्यप्रकृतिलक्षणं तस्य शेषम् — उद्धरितं स्वकर्मशेषस्तेन, लक्षणे तृतीया, 'पुराकृतेन' पूर्वजन्मान्तरोपार्जितेन 'कुलेषु' अन्वयेषु 'उदात्तेषु' उच्चेषु 'चः' पूरणे, 'ते' इति ये देवा भूत्वा
For Personal & Private Use Only
इषुकारीय
मध्ययनं.
१४
॥ ३९६ ॥
jalnelibrary.org