SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ न्तत्वं च तेषां शल्यविषादिभिरुदाहरणैः प्रतीतमेव, तथा च वक्ष्यति - "सलं कामा विसं कामा, कामा आसीविसोबमा । कामे पत्थेमाणा, अकामा जंति दुग्गतिं ॥ १॥" न हि विषादीनि मुखमधुराण्यप्यायतिविरसतया विवेकिभिर्न हीयन्ते यदपि परलोकसन्देहाभिधानं तदपि न पापपरिहारोपदेशं प्रति बाधकं, पापानुष्ठानस्येहेव चौरपारदारिकादिषु महानर्थहेतुतया दर्शनात् परलोकनास्तित्वानिश्चये च तत्रापि तथानर्थहेतुतया सम्भाव्यमानत्वाद्वल्मीककर| प्रवेशनादिवत् प्रेक्षावद्भिः परिहर्तुमुचितत्वात् न च परलोकास्तित्वं प्रति सन्देहः, तन्निश्चायकानुमानस्य तदहर्जा| तबालकस्तनाभिलापादिलिङ्गवलोत्पन्नस्य तथाविधाध्यक्षवदव्यभिचारित्वेन तत्र तत्र समर्थितत्वादित्यलं प्रसङ्गेनेति | सूत्रार्थः ॥ ६ ॥ अन्यस्तु कथञ्चिदुत्पादितप्रत्ययोऽपि कामान् परिहर्तुमशक्नुवन्निदमाह जण सद्धिं होक्खामि, इति वाले पगन्भइ । कामभोगाणुरागेणं, केसं संपडिवज्जइ ॥ ७ ॥ व्याख्या - जायत इति जनो- लोकस्तेन 'सार्द्ध' सह भविष्यामि, किमुक्तं भवति ? - बहुर्जनो भोगासङ्गी तदहमपि तद्गतिं गमिष्यामि, यद्वा 'होक्खामि त्ति भोक्ष्यामि - पालयिष्यामि, यथा ह्ययं जनः कलत्रादिकं पालयति तथाऽह - मपि, न हीयान् जनोऽज्ञ इति 'बालः' अज्ञः 'प्रगल्भते' धार्यमवलम्बते, अलीकवाचालतया च स्वयंनष्टः परानपि नाशयति, न विवेचयति यथा - किमुन्मार्गप्रस्थितेनाविवेकिजनेन बहुनाऽपि ? मम विवेकिनः प्रमाणीकृतेन १, स्वकृत१ शल्यं कामा विषं कामाः, कामा आशीविषोपमाः । कामान् प्रार्थयन्तोऽकामा यान्ति दुर्गतिम् ॥ १ ॥ २ प्रमाणीकरणेनेति, Jain Education International For Personal & Private Use Only Mainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy