SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ NAAMROSAROKAR ब्राह्मणानां 'मोसं'ति मृषा-अलीकभाषणं 'अदत्तंति पदेऽपि पदैकदेशस्य दर्शनात्सत्यभामा सत्येतिवत् अदत्तिादानमुक्तं, चशब्दान्मैथुनं, 'परिग्रहश्च' गोभूम्यादिखीकारः, अस्तीति सर्वत्र गम्यते, 'ते' इति क्रोधाद्युपेता यूयं । ब्राह्मणा जातिविद्याभ्यां विहीना-रहिता जातिविद्याविहीनाः, क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था, यत । से उक्तम्-“एकवर्णमिदं सर्व, पूर्वमासीधुधिष्ठिर ! । क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १॥ ब्राह्मणो ब्रह्म-13 चर्येण, यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्र स्यादिन्द्रगोपककीटवत् ॥ २॥" न चैवंविधक्रिया ब्रह्मचयत्मिका कोपाद्युपेतेषु तत्त्वतः सम्भवत्यतो न तावजातिसम्भवः, तथा विद्यापि सच्छास्त्रात्मिका, सच्छास्त्रेषु च । सर्वेष्वहिंसादिपञ्चकमेव वाच्यं, यत उक्तम्-“पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ १॥” तद्युक्तत्वं च तत्तज्ज्ञानादेव भवति, ज्ञानस्य तु विरतिः फलं रागाद्यभावश्च, यत उक्तम् । M-“तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः। तमसः कुतोऽस्ति ? शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥" न चैवमग्याद्यारम्भिषु कोपादिमत्सु च भवत्सु विरते रागाद्यभावस्य च सम्भवोऽस्ति, न च निश्चयनयमतेन फलरहितं वस्तु सत् , तथा च निश्चयो यदेवार्थक्रियाकारि तदेव परमार्थसदित्याह, ततः स्थितमेतत्-'ताई तु'त्ति तुरवधारणे भिन्नक्रमश्च, ततश्च तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, 31 For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy