SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ शिष्यते, 'एवम्' इत्युक्तसदृशं 'मनुजानां मनुष्याणां, मनुजग्रहणं च प्राग्वत् , 'जीवियंति जीवितं, यत एवं ततः ।। समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ अमुमेवार्थमुपसंहरन्नुपदेशमाह इइ इत्तरियंमि आउए, जीवितए बहुपच्चवायए। विहुणाहि रयं पुराकडं, समयं ॥३॥ व्याख्या-'इति' इत्युक्तन्यायेन 'इत्वरे' अयनशीले, कोऽर्थः?-खल्पकालभाविनि, एति-उपक्रमहेतुभिः अनपवयतया यथास्थित्यैवानुभवनीयतां गच्छतीति आयुः, तच्चैवं निरुपक्रममेव तस्मिन् , तथाऽनुकम्पितं जीवितं जीवितकं चशब्दस्य गम्यमानत्वात् तस्मिंश्च, अर्थात् सोपक्रमायुषि, बहवः-प्रभूताः प्रत्यपाया-उपघातहेतवोऽध्यवसाननिमित्तादयो यस्मिंस्तत्तथा, अनेन चानुकम्प्यताहेतुराविष्कृतः, एवं चोक्तरूपद्रुमपत्रोदाहरणतः कुशाग्रजल|बिन्दूदाहरणतश्च मनुजायुर्निरुपक्रमं सोपक्रमं चेत्वरम् , अतोऽस्यानित्यतां मत्वा 'विधुनीहि' जीवात् पृथक् कुरु 'रजः' कर्म 'पुरेकडंति' पुरा-पूर्व तत्कालापेक्षया कृतं-विहितं, तद्विधुवनोपायमाह-समयमपि गौतम ! माप्रमादीः, पठन्ति च-एवं मणुयाण जीविए एत्तिरिए बहुपचवायए'त्ति सुगममेवेति सूत्रार्थः ॥ स्यात्-पुनर्मनुष्यभवावाप्ता वुद्यस्याम इत्याहहै। दुलहे खलु माणुसे भवे, चिरकालेणवि सध्वपाणिणं । गाढा य विवाग कम्मुणो, समयं० ॥४॥ व्याख्या-'दुर्लभो दुरवापः, 'खलुः' विशेषणे, अकृतसुकृतानामिति विशेष द्योतयति. 'मानुषो' मनुष्यसम्बन्धी COCCASKok www.jainelibrary.org For Personal & Private Use Only Jain Educon interne
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy