________________
दह्यते इत्याद्युक्तेऽपि कथं मयि जीवतीदमिति नाहङ्गतिं कृतवानिति, तथा 'अहो ते णरक्किय'त्ति प्राकृतत्वान्निराकृता-अपास्ता माया, यस्त्वं पुररक्षाहेतुषु प्राकाराहालकोच्छूलकादिषु निकृतिहेतुकेष्वामोपकोच्छेदनादिषु च न मनो निहितवान्, तथा च अहो ते लोभो 'वशीकृत' इति नियत्रितः, यस्त्वं हिरण्यादि वर्द्धयित्वा गच्छेति सहेतुकमभिहितोऽपीच्छाया आकाशसमत्वमेवोदाहृतवान्, अत एव अहो 'ते' तव 'आजवम्' ऋजुत्वं 'साधु' शोभनम् , अहो ते साधु 'मार्दवं' मृदुत्वम् , अहो ते 'उत्तमा प्रधाना 'क्षान्तिः' कोपोपशमलक्षणा, अहो ते 'मुक्तिः' निर्लोभता उत्तमा, व्यत्ययनिर्देशस्त्वनानुपूर्व्यपि प्ररूपणाऽङ्गमितिकृत्वेति सूत्रत्रयार्थः ॥ इत्थं गुणोपवर्णनद्वारेणाभिष्टुत्य सम्प्रति 3 फलोपदर्शनद्वारेण स्तुवन्नाह| इहंऽसि उत्तमो भंते !, पेच्चा होहिसि उत्तमो। लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ॥८॥
व्याख्या-'इह' अस्मिन् जन्मनि 'असि' भवसि 'उत्तमः'प्रधानः, उत्तमगुणान्वितत्वात् , 'भंते'त्ति पूज्याभिधान प्रेत्य' परलोके भविष्यसि उत्तमः, कथमित्याह-लोकस्य-चतुर्दशरज्वात्मकस्य 'उत्तमम्' उपरिवर्ति लोकोत्तमम् 'उत्तम' देवलोकाद्यपेक्षया प्रधानम् , अथवा 'लोगोत्तममुत्तमंति मकारोऽलाक्षणिकः, ततो लोकस्य लोके वा
उत्तमोत्तमम्-अतिशयप्रधानं लोकोत्तमोत्तम, तिष्ठत्यस्मिन् नातः परं गच्छतीति स्थानं. किं तदित्याह-'सिद्धि' 8मुक्तिं 'गच्छसि'त्ति सूत्रत्वाद्गमिष्यसि, निर्गतो रजसः-कर्मण इति नीरजा इति सूत्रार्थः॥ उपसंहारमाह
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org