________________
च्यते, एतेन च यदुक्तं-'प्राकारं कारयित्वे त्यादि, तत्सिद्धसाधनम् , इत्थं श्रद्धानगररक्षणाभिधानात् भवतश्च तत्त्वतस्तदविज्ञतेति चोक्तं भवति, न च भवदभिमतप्राकारादिकरणे सकलशारीरमानसक्लेशवियुक्तिलक्षणा मुक्तिरवाप्यते, इतस्तु तदवाप्तिरपीति सूत्रत्रयार्थः ॥ एवं च तेनोक्ते 'एय' २३ सूत्रं प्राग्वत् ।
पासाए कारहत्ता णं, वङ्कमाणगिहाणि य । वालग्गपोइयाओ य, तओ गच्छसि खत्तिया! ॥२४॥ A व्याख्या-प्रसीदन्ति नृणां नयनमनांसि येषु ते प्रासादास्तान् उक्तरूपान् ‘वर्द्धमानगृहाणि च' अनेकधा वास्तुवि
द्याऽभिहितानि 'वालग्गपोइयातो यत्ति देशीपदं वलभीवाचकं, ततो वलभीश्च कारयित्वा, अन्ये त्वाकाशतडागमध्यस्थितं क्षुलकप्रासादमेव 'वालग्गपोइया यत्ति देशीपदाभिधेयमाहुः, ततस्ताश्च क्रीडास्थानभूताः कारयित्वा, ततोऽनन्तरं गच्छ क्षत्रिय !। एतेन च यः प्रेक्षावान् स सति सामर्थे प्रासादादि कारयिता यथा ब्रह्मदत्तादिः, प्रेक्षावांश्च सति सामर्थे भवान् , इत्यादिहेतुकारणयोः सूचनमकारीति सूत्रार्थः॥एवं च शक्रेणोक्ते 'एय' २५ सूत्रं प्राग्वत्।
संसयं खलु सो कुणइ, जो मग्गे कुणंई घरं । जत्थेव गंतुमिच्छेजा, तत्थ कुविज सासयं ॥ २६॥ | व्याख्या-संशीतिः संशयः-इदमित्थं भविष्यति नवेत्युभयांशावलम्बनः प्रत्ययस्तं, 'खलुः' एवकारार्थः, ततः संशयमेव स कुरुते-यथा मम कदाचिद्गमनं भविष्यतीति, यो मार्गे कुरुते गृहं, गमननिश्चये तत्करणायोगाद्, अहं तु न संशयित इत्याशयः, सम्यगदर्शनादीनां मुक्तिं प्रत्यवन्ध्यहेतुत्वेन मया निश्चितत्वादवाप्तत्वाचं, यदि नाम
Jain Education International
For Personal & Private Use Only
IIM
ainelibrary.org