________________
परिकर्मतादिभिश्च विशेषैर्विशिष्टानि-विशेषवन्ति, इदमुक्तं भवति यद्यपि त्रितयमप्येतत् "धीरेणऽवि मरियवं कापुरिसेणवि अवस्स मरियवं । तम्हा अवस्समरणे वरं खुधीरत्तणे मरिउं ॥१॥ संसाररंगमझे धीवलसंनद्धवद्धकच्छातो।। हंतूण मोहमलं हरामि आराहणपडागं ॥२॥जह पच्छिमम्मि काले पच्छिमतित्थयरदेसियमुयारं। पच्छा निच्छयपत्थं उमि अब्भुजयं मरणं ॥३॥” इति शुभाशयवानेव प्रतिपद्यते, फलमपि च विमानिकतामुक्तिलक्षणं त्रयस्यापि । समानं, तथा चोक्तम्-“ऐयं पञ्चक्खाणं अणुपालेऊण सुविहिओ सम्मं । वेमाणितो व देवो हवेज अहवाऽवि |सिज्झिज्जा ॥१॥" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव तत्प्राप्तिरिति कनिष्ठत्त्वादिस्तद्विशेष उच्यते, तथाहि-भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति, यत उक्तम्-"सेवाविय अजाओ सन्वेऽवि य पढमसंघयणवजा । सत्वेऽवि देसविरया पञ्चक्खाणेण उ मरंति ॥१॥" अत्र हि प्रत्याख्यानशब्देन भक्तपरिजैवोक्ता, तत्र प्राक् पादपो-2 पगमनादेरन्यथाऽभिधानात्, इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव सम्भवतीत्यार्यिकादिनिषेधत एवावसी
१ धीरेणापि मर्तव्यं कापुरुषेणाप्यवश्यं मर्तव्यम् । तस्मादवश्यमरणे वरमेव धीरत्वेन मर्तुम ॥ १ ॥ संसाररङ्गमध्ये धृतिबलसन्नद्धबद्धकक्षाकः । हत्वा मोहमलं हराम्याराधनापताकाम् ॥ २ ॥ यथा पश्चिमे काले पश्चिमतीर्थकरदेशितमुदारम् । पश्चान्निश्चयपथ्यमुपैमि अभ्यु-IX द्यतं मरणम् ॥ ३ ॥ २ एतत्प्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो भवेदथवाऽपि सिध्येत् ॥४॥३ सर्वा अपि चार्याः सर्वेऽपि च प्रथमसंहननवर्जाः । सर्वेऽपि देशविरताः प्रत्याख्यानेनैव म्रियन्ते ॥१॥
Jain Education a
n al
For Personal & Private Use Only
ram.jainelibrary.org