________________
व्याख्या-इह' अस्मिन् जन्मनि 'जीवितं' असंयमजीवितम् 'अनियम्य' द्वादशविधतपोविधानादिनाऽनियन्य प्रभ्रष्टाः' च्युताः, केभ्यः ?-'समाहियोगेहि ति समाधिः-चित्तस्वास्थ्यं तत्प्रधाना योगाः-शुभमनोवाक्कायव्यापाराः समाधियोगाः, यद्वा समाधिश्च-शुभचित्तैकाग्रता योगाश्च-पृथगेव प्रत्युपेक्षणादयो व्यापाराः समाधियोगाः तेभ्यः, अनियन्त्रितात्मनां हि पदे पदे तभ्रंशसम्भव इति, 'ते' अनन्तरमुक्ताः कामभोगेषु अभिहितखरूपेषु रसः-अत्यन्तासक्तिरूपस्तेन गृद्धाः-तेष्वभिकालावन्तः कामभोगरसगृद्धाः, यद्वा रसाः-पृथगेय शृङ्गारादयो वा, भोगान्तर्गतत्वेऽपि
नमतिगृद्धिविषयताख्यापनार्थम् ‘उपपद्यन्ते' जायन्ते 'आसुरे' असुरसम्बन्धिनि काये, असुरनिकाये|| इत्यर्थः, इदमुक्तं भवति-एवंविधाः किञ्चित् कादाचित्कमनुष्ठानमनुतिष्ठन्तोऽप्यसुरेण्येवोत्पद्यन्ते इति सूत्रार्थः ॥
ततोऽपि च्युतास्ते किमामवन्तीत्याहहै। तत्तोऽविय उवट्टित्ता संसारं बहुं परियडंति । बहुकम्मलेवलित्ताणं वोही होइ सुदुल्लहा तेसिं ॥ १५॥ | P व्याख्या-'ततोऽपि च' असुरनिकायाद् 'उद्धृत्य' तत्परित्यागेनान्यत्र गत्वा 'संसारं' चतुर्गतिरूपं बहुशब्दस्य है 'बहुप्पे घृतं श्रेय' इत्यादिषु विपुलवाचिनोऽपि दर्शनाद्वहुं-विपुलं विस्तीर्णमितियावत् , बहुप्रकारं वा चतुरशीतियोनिलक्षतया 'अणुपरियंति'त्ति अनुपरियन्ति, सातत्येन पर्यटन्तीत्यर्थः, पठन्ति च-'अणुचरंति'त्ति स्पष्टं, किंच-बहूनि
१ अणुपरियति इति दीका
For Personal & Private Use Only
www.jainelibrary.org
Jain Education