SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३ ॥ नामं ठवणा दविए खित्त दिसा तावखित्त पन्नवए । पइकालसंचयपहाणनाणकमगणणओ भावे॥॥ अध्ययनम् | व्याख्या-इह च सुपो यत्रादर्शनं तत्र सूत्रत्वेन छान्दसत्वात् लुक्, तथोत्तरनिक्षेपप्रस्तावात् सूचकत्वात्सूत्रस्य 'कमउत्तरेण पगय' मित्युत्तरश्रवणाच 'नाम' ति नामोत्तरं 'ठवणं' ति स्थापनोत्तरमित्याधभिलापः कार्यः । तत्र नामोत्तरमिति नामैव यस्य पा जीवादेरुत्तरमिति नाम क्रियते, स्थापनोत्तरमक्षादि, उत्तरमिति वर्णविन्यासो| वा, द्रव्योत्तरमागमतो ज्ञाताऽनुपयुक्तो नोआगमतो ज्ञशरीरभव्यशरीरे तद्यतिरिक्तं च, तत्र तद्यतिरिक्तं त्रिधा-सचित्ताचित्तमिश्रभेदेन, तत्र सचित्तं पितुः पुत्रः, अचित्तं क्षीरात् दधि, मिश्रं जननीशरीरतो रोमादिमदपत्यम् , इह च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यप्राधान्यविवक्षया पित्रादेरूलभवनतश्च पुत्रादीनां द्रव्योत्तरत्वं भावनीयं, क्षेत्रोत्तरं मेर्वाद्यपेक्षया यदुत्तरं, यथोत्तराः कुरवः, यद्वा पूर्व शालिक्षेत्रं तदेव पश्चादिक्षुक्षेत्रं, दिगुत्तरमुत्तरा दिग् , द्र दक्षिणदिगपेक्षत्वादस्य, तापक्षेत्रोत्तरं यत्तापदिगपेक्षयोत्तरमित्युच्यते, यथा-सर्वेषामुत्तरो मन्दराद्रिः, प्रज्ञापकोत्तरं | यत् प्रज्ञापकस्य वामं, प्रत्युत्तरमेकदिगवस्थितयोर्देवदत्तयज्ञदत्तयोर्देवदत्तात् परो यज्ञदत्त उत्तरः, कालोत्तरः समया १ कयपवयणप्पणामो वुच्छं धम्माणुओगसंगहिरं। उत्तरज्झयणाणुओगं गुरूवएसाणुसारेण ॥१।। इत्येषा गाथाऽऽदौ नियुक्तिपुस्तके दृश्यते, नचव्याख्यातेत्युपेक्षिता, अनुबन्धादिदर्शितयोपयोगित्वे(कृतप्रवचनप्रणामो वक्ष्ये धर्मानुयोगसंगृहीतम्। उत्तराध्ययनानुयोगं गुरूपदेशानुसारेण) इति संस्करणं ज्ञेयम्। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy