SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ मङ्गलम् 'इइ पाउकरे बुद्धे' इत्यादिना बुद्धाद्यभिधानं । समुदायो-वर्णपदवाक्यश्लोकाध्ययनकदम्बकात्मकश्रुतस्क - | न्धरूपस्तस्याभिधेयोऽर्थः समुदायार्थः, स चेह धर्मकथात्मकः, विशेषतस्त्वेनं 'पढमे विणओ' इत्यादिना निर्युक्तिकार एव वक्ष्यति । द्वाराणीति प्रक्रमादनुयोगद्वाराणि, तत्र चानुगतमनुरूपं वा श्रुतस्य खेनाभिधेयेन योजनं सम्बन्धनं तस्मिन् वाऽनुरूपोऽनुकूलो वा योगः श्रुतस्यैवाभिधानव्यापारोऽनुयोगः, तदुक्तम् — “अणुजोयणमणुजोगो | सुयस्स नियएण जमभिधेयेणं । वावारो वा जोगो जो अणुरुवोऽणुकूलो वा ॥१॥" तस्य द्वाराणि उपक्रमादीनि | अनुयोगद्वाराणि तानि तद्भेदनिरुक्तिक्रमप्रयोजनानि च ' तत्थज्झयणं पढम' मित्यत्र वक्ष्यामः । आह— प्रकृतोऽयमुत्तराध्ययनानुयोगः, तत्र किमेतान्युत्तराध्ययनान्यङ्गमङ्गानि श्रुतस्कन्धः श्रुतकन्धा अध्ययनमध्ययनानि उद्देशक | उद्देशकाः १, उच्यते, नाङ्गं नाङ्गानि श्रुतस्कन्धो न श्रुतस्कन्धाः, नाध्ययनमध्ययनानि, नोदेशको नोदेशका इति । | अस्य च नामनिक्षेपे 'उत्तराध्ययनश्रुतस्कन्ध' इति नाम, तत्रोत्तरं निक्षेप्तव्यमध्ययनं श्रुतस्कन्धश्च तंत्रोत्तरनिक्षे| पाभिधानायाह भगवान् निर्युक्तिकारः १ अनुयोजनमनुयोगः सूत्रस्य निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy